SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सूरिसन्दब्धम् ] श्रीजीराउलापार्श्वस्तवनम्। प्रियप्राप्तेहेतुः सततमपलानामपि धरा वनश्रीशोभाकृत् प्रवरसुमनःशालिफलदः । सदालिप्रोल्लासी सुखिततमपुंस्कोकिल ! लसद्रसालाभो देवस्त्वमसि सुरभिः प्रीतभुवनः ॥ ११ ॥ लसवादोनाथो रचयसि मुदं सोमरुचिभिः . .. प्रतापश्रीपोषं प्रबलज़डताशोषमपि च । मरुच्चक्रासेव्यः परिमललसच्चम्पकतति ___जगढौक्याम्रौघो जयसि भगवंस्त्वं तपऋतुः ॥१२॥ जिन ! त्वत्तो रम्या प्रभवति सरस्वत्यमृतदा । _ निमित्तं शस्यानां त्वमपि सकलानां जिनपते ! । त्वदायत्तः सर्वो भुवनजनतायाः सुखभरः पयोदस्त्वं चित्रं हरसि सकलं मेऽषपटलम् ॥१३॥ सदाशालिस्फातिर्भवति सफला साशु कविभिः श्रिता त्वत्तः स्वामिन् ! प्रवरवृषपोषैकनिपुण ! स्फुरत्पद्मोल्लासिन् ! सकलभुवनानां कलुषता . निराकतुस्तत्त्वं जयसि शरदस्तुल्यमहिमा ॥ १४ ॥ सदा पुन्नागश्रीः प्रभवति विभो ! दुर्भगतमा . लभन्ते सौभाग्यं प्रसरति हिमाली जनततौ । जनः प्रौढज्योतिःपटलपरिषेवी स्फुटतमा नुभावाचस्यासौ त्वमसि गुरुहेमन्तविभवः ॥ १५ ॥ पलाशानां पातं विदधति सदा पादपततौ रुचिं स्वामिन् ! दोषाकरगुरुगवां नो प्रथयति ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy