________________
श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरसुपर्वस्वाम्यालीस्फुटमुकुटकोटीतटलठन्
मणिज्योतिधोत्यप्रवरचरणाम्भोजयुगलम् ॥ ५॥ प्रतिष्ठां पुष्यन्ते हरिहरविरिश्चप्रभृतयः
सुपर्वश्रेणीशा अपि च यदवपुर्जिनपते ! । तव स्वामिन् ! पद्मानिलय ! कमलाभाघ्रियुगली
सपर्या वर्यासौ सततविहिताहेतुरिह तत् ॥ ६॥ निषिद्धा सिद्धान्ते सकलममता यद्यपि विभो !
तथापि त्वं स्वामी जिनवर ! सदा मे नहि परः । मयेत्थं निर्णिन्ये तदियमुचिता तेऽपि भगवन् !
ममानुप्राह्योऽसाविति च करुणा सन्ततमपि ॥७॥ अकुण्ठाः श्रीकण्ठाच्युतविधिमुखानामपि चिदो
नदीयन्ते तेऽस्मिन् प्रवरतरविज्ञानजलधौ । त्वमेव ध्येयोऽतस्त्वमसि शरणं त्वं च सुखकृत्
ततस्त्वामेवाहं शरणमभजं दैवतनत ! ॥ ८॥ अहं याचे मुक्ति न च हरिविरिश्चप्रभृतयः
समर्थास्तां दातुं तदहममलं ते पदयुगम् । श्रितस्तत्त्वं विश्वाधिप ! सकलकर्मामयमलं .
. मलं हत्वा सद्यो वितर तरसा तां श्रितवते ॥९॥ भूता भूताद्याः प्रबलतररोगा अपि तथा
तव स्वामिन् ! नाम स्मरणवशतो यान्ति विलयम् । प्रचण्डे मार्तण्डे स्फुरति यदि वा घोतितदिशा
समूहेऽतिव्यहस्तिमिरनिकरस्य प्रभवति ॥१०॥