SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सूरिसन्दृब्धम् ] श्रीजीराउलापार्श्वस्तवनम् । १५३ [ ३६ ] श्रीभुवन सुन्दरसूरिसन्दब्धं श्रीजीराडलीमण्डनश्रीपार्श्वनाथस्तवनम् । श्रियः क्रीडागेहं रुचिरुचिर देहधुतिभरं त्रिलोकीविख्यातप्रकटपटुमाहात्म्यविभवम् । स्तुवे जीरापल्ली युवतिगुरुमल्लीयमुकुटं प्रभुं श्रीवामेयं प्रणवमयताध्येयमनिशम् ॥ १ ॥ तव ध्यानं स्वामिन् ! विदधति सदा येऽधिमनसं न सन्देहस्तेषाममरनिकरः किङ्कर इव । भुजिष्यीभावं सा भजति नृपतिश्रेणिरपि च . ँ રા प्रभो ! होकारात्मन् ! जनततिरतस्त्वां श्रितवती ॥२॥ सुपर्वद्रुश्रेणीसुरवरगवीनामनुपमः सुधाभुक्कुम्भादेरपि च महिमा विश्वविदितः । भवेत् खद्योत श्रीर्यदुरुमहिमादित्य पुरतः प्रभो ! श्रीबीजात्मन् ! स भव भविनां त्वं सुखकरः ॥ सदाप्यर्हन्तं त्वाममरपतिसंसेव्यचरणं चतुस्त्रिंशत्प्रौढातिशयकमलोल्लासनरविम् । स्फुरद्रत्नस्वर्णप्रकरमय सिंहासनजुषं श्रयन् भव्यः प्राणी भजति भगवंस्तत् तव पदम् ||४|| नमस्कुर्वे सर्वेहितसुखकरं त्वां त्रिजगती शरण्यं सार्वश्रीयुवतिहृदये हारसदृशम् ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy