SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रीभुवनसुन्दरत्वदपमेव समवेक्ष्य निजस्वरूपं ते योगिनस्तव पदं भगवल्लभन्ते ॥ २७ ॥ - त्वद्गोत्रमन्त्रवरवर्णततिं स्वकीये . हृत्पङ्कजे प्रवरपत्रततौ निधाय । यो ध्यायति त्रिजगदीश्वर ! तस्य पुंसो वश्या भवन्ति सकला अपि सिद्धयस्ताः ॥ २८ ॥ सालत्रयान्तरतिशुभ्रतरातपत्रं सिंहासनस्थममरेश्वरसेव्यमानम् । त्वां भासुरातिशयमाशयदेशमध्ये • ध्यायन्नरो भवति भाजनमीशतायाः ॥ २९ ॥ निःस्पर्शरूपरसगन्धमजन्ममृत्यु सिद्धं निरञ्जनमनन्तचतुष्टयाव्यम् । यश्चिन्तयत्यविरतं तव रूपमोडगू देव ! ध्रुवं पदमसौ लभते क्रमेण ॥ ३०॥ चौरा इव प्रबलरोगगणा जिनेन्द्र ! त्वद्ध्यानभानुवशतः प्रलयं प्रयान्ति । पद्माकरा इव शुभप्रकराः श्रयन्ति प्रोल्लासमाशु पुरुहूतनमस्कृताङ्ग्रे ! ॥ ३१ ॥ श्रीसोमसुन्दरगुरुत्तमसूरिराजशिष्याणुना भुवनसुन्दरमरिणा त्वम्। देव! स्तुतः प्रवरभक्तिभरेण दद्याः सानन्दशाश्वतपदाभ्युदयस्य लक्ष्मीम् ॥ इति श्रीजीराउलिमण्डनश्रीपार्थनिनस्तवनम् । भट्टारकश्रीभुवनसुन्दरसूरिकृतम् ।।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy