SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीजीराउलीपार्श्वस्तवनम् । १५१ मच्चेतसस्तव गिरश्व सदाप्यभावमन्योन्यपूर्वकमपास्य जगन्नमस्य ! | तादात्म्यमेव कुरु येन विभो ! भजेयं तत्तावकीनपदमभ्युदयावदातम् ॥ यास्यत्ययं कुगतिमेव कुकर्मकृत्वादित्येष हेतुरिह लक्षणलक्षिताङ्गः । सिद्धोऽप्यसिद्धपदवीमयते यतीश ! त्वद्ध्यानबन्धुरतरस्य नरस्य सद्यः ॥ भास्वत्प्रमाणयुगलोज्ज्वललोचन श्रीर्देव ! त्वया सदसदात्मकवस्तुरूपः । स्याद्वाद एष निहितः प्रणिहन्ति सद्यः कण्ठीरवः कठिनवादिमदद्विपेन्द्रान् ॥२१॥ काला भेदवशतो युगपत् समग्रादेशात्मिका निगदिता खलु सप्तभङ्गी । स्वामिन् ! प्रमाणवचनं भवतेयमाशु वादे ददाति विजयश्रियमेव पुंसाम् ॥ वस्त्वंशमात्रकथनादसमग्रभावादेशात्मिका नयवचः शुचिसप्तभङ्गी । स्यादेवकारकलिता भवता न्यगादि या सापि देव ! कुमत द्विपराजिसिंही ॥ २३ ॥ एकत्र वस्तुनि जनिस्थितिनाशरूपैः कालत्रयेण गुणितैः स्वपरत्वयुक्तेः । भस्त्वयोक्तमवगच्छति वस्त्वनन्तधर्मात्मकं प्रवरधीधन एवं नाऽन्यः ॥ उच्चारितेऽपि तव नाम्नि विपद्विनाशः सम्पद्यते सपदि सम्पदपि प्रकृष्टा । मुक्त्यङ्गनाsपि वृणुते तदयं जनौघो रात्रिंदिवं स्मरति देव ! तदेव हर्षात् ॥ जन्मक्षणे तव विभो ! सुरसुन्दरीणां नाट्यत्रुटत्प्रवरहारलताच्युतैस्तैः । सद्रत्नमौक्तिक गणैर्महिलेव मेरो र्भूः काञ्चनीसुभगतां समवाप सद्यः ॥ २६ ॥ ब्रह्मात्मकं परमसौख्यमयं प्रधानै श्वर्यं कुकर्मरहितं सहितं गुणौघैः ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy