________________
१५०
श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरलोकेशताहयगुणं प्रगुणं स्वयम्भूर्मृत्युञ्जयत्वमपि शङ्कर एष देवः । लक्ष्मीपतिश्च पुरुषोत्तमतामवापुस्त्वत्पूजनस्तवनसंस्मृतितो जिनेन्द्र ! ॥ सच्चित्रवल्लिसुरधेनुसुपर्ववृक्षस्वःकुम्भमुख्यशुभकारिपदार्थसाथैः ।। आराधितैर्य इह सौख्यभरो नृणां स्यात् त्वनामसंस्मरणतः स भवेदनन्तः॥ रागादयः प्रबलकष्टकरा हि तावत् तावच्च संस्मृतिपरिभ्रमणं महीयः । पीयूषवृष्टिकलया तव देव! दृष्टया स्पृष्टो न यावदयमङ्गिगणः सहेलम्।। इन्दुः सुधानिधिवपुः कलकान्तिकान्तं भानुः समग्रजगतीतलभासकत्वम् । इन्द्रादयोऽपि परमेश्वरतामवापुस्त्वद्ध्यानतः सकलवाञ्छितदानरक्ष! । ते चक्रिणः स्फुटचतुर्दशदीपरत्नभास्वनिधानतुरगेभसवृद्धिवृद्धाम् । यत्प्राज्यराज्यकमलां विमलां लभन्ते तत्तावकीनचरणार्चनजः फलांशः ॥ नारायणा हलधरप्रमुखाश्च भूपा रूपातिशायिवपुषः सुखसन्ततीद्वाः। भोगप्रयोगसुभगं सुखमाप्नुवन्ति तत्ते मताश्रयणजोऽतिशयांश एव ॥ ___ गङ्गाजलेषु विलुठन्तु पठन्तु वेदान्
ध्यायन्तु किञ्चिदथ भान्तु तपस्क्रियाभिः । देवान् नमन्तु विरमन्तु भवात् तथापि
त्वद्ध्यानशून्यहृदयेषु विभो ! न मुक्तिः ॥१६॥ तेपे तपो न समयोऽपि समो न पेठे नेमे न तीर्थमथ दानगुणे न रेमे। कश्चिन्नरैरलसमूर्तिधरैस्तथापि त्वद्ध्यानतः शिवपदं जिनराज ! लेभे ॥ स्वान्यप्रकाशकरणप्रवणस्वरूपं यल्लक्षणं निजगदे जगदेकनाथ ! | भास्वत्प्रमाणयुगलस्य जिन! त्वयेदं बाभाति सत्यमपरं तु न युक्तियुक्तम्।।