________________
श्रीजैनस्तोत्रसन्दोहे
सदानालीकालीर्दहति विलसत्कुङ्कम
१५६
[ श्रीभुवनसुन्दर
स्फुरत्कुन्दामोदे त्वयि शिशिरताऽसौ समुचिता ॥ १६ ॥
जरा सिन्धून्माथी नरकरिपुहा कामजनकः
स्फुरन्मायास्थानं प्रवरगुणगोपीवरतमः । सदानन्दोल्लासी जिनवर ! यशोदायकधनो
जगन्नाथोऽपि त्वं तदधिकगुणो रागहरणात् ॥१७॥ अनात्मानो भूमिरुह इह विना कर्म यदि भोः
श्रयन्ते वृद्ध्यादीन् फलमुखभुजां भाग्यवशतः । तदा वर्णिन्योऽपि स्वपतिकृतपुण्यातिशयतो
भजन्तामुत्पत्तिप्रभृति समयुक्तीक्षणवशात् ॥ १८ ॥ तदीया भत्तांरोऽप्यथ च महिलाकर्मवशतो
जुषन्तां जन्मादिस्वकृतवृषजन्त्वादिविकलाः । सदापीत्थं यूथ्याः परमृतगता युक्तिरहिता
विडम्बन्ते येषां त्वमसि नहि शास्ताऽस्तकुमते ! ॥ १९ ॥ हराद् भूतो ब्रह्मा रचयति जगन्तीह किमसौ
हरेरेतानि प्राग् यदुरुजठरे सन्ति सततम् । बहिश्वेतानि प्रणयति हरिस्तन्न जगता
-
मभिव्याप्तेत्येवं त्वपरकथा नाथ ! वितथा ॥ २० ॥
जगद्विश्रामार्थं यदि पशुपतिः संहृतिविधा -
वदृष्टं संरुन्द्धे प्रसतकरुणास्तन्न कुरुते । कुतो दुष्टादृष्टव्यथितवपुषः स्वक्रमजुषो
जनान्नित्यानन्दाननृतमिति नाथाऽन्यवचनम् ॥ २१ ॥