________________
सूरिविरचितम्] श्रीपार्श्वनाथस्तवनम् । १४७ कलौ नाम शैले सरः कुण्डमस्ति स्वयम्भूर्भवांस्तत्तटे स्माविरस्ति । तदासन्नभूपालभक्त्येति चित्रं पवित्रं च तद् वेद कस्ते चरित्रम् ! ॥ तडित्पातघातस्फुटच्छलशृङ्गास्तरत्तलनीला लुठद्मावशृङ्गाः । अदभ्राभ्रग हतप्राणिताशाः स्फुरद्दर्दिनासाररुद्धाखिलाशाः ॥ २६ ॥ तवांहोमठाः कामठा वारिवाहा न निर्वापयामासुरापूर्णवाहाः । स्वचेतोऽभ्रकागारगं ध्यानदीपं भजन्तं चिदानन्दसौख्यं समीपम् ॥ यदूर्व फणाः सप्त नागाधिराजः स्फुरद्रत्नचूडा बभुर्भक्तिभाजः । विजित्येवतानारकान् दुर्गमारोन् सदीपा ध्वजा उच्छ्रिता दुर्गमारीन् । विधोयेन्महो यच्च वा चण्डभानोर्मणीनां तु यच्चाविरासीत् कृशानोः । अहो यन्महो ज्योतिषां विश्वभर्तः ! स सर्वोऽपि ते ज्ञानतेजोविवर्तः ॥ भवाम्भोनिधौ कर्मणां भीतिभीतस्तवाज्ञान्तरीपं हि पुण्यादभीतः । कुपालो ! नृपालोकमार्गाध्वनीनं ततो मामवाऽनाथमेनं सुदीनम् ॥३०॥ त्वया देव ! जिग्ये पुरा यस्तपस्वी सकोऽनङ्गवीरोऽधुना किं तरस्वी ? महामोहराजो बले जायते न तृणेढि श्रितानाशुगैस्तेन तेन ॥ ३१ ॥ समाधिं निधि हे मनस्त्वं गृहाण स्वदौर्गत्यदुःखं समस्तं मुषाण । अनङ्गादिनागैर्नभोनीलिमाभैः सदा रक्षके पार्श्वनाथे च मा भैः ॥३२॥ तवास्याम्बुजे यो मनश्चञ्चरीकः पपावाधिवात्याभरात् कान्दिशीकः । कणेहत्य लावण्यपीयूषपूरं स कृष्णोऽप्यतः श्वेतपक्षोऽस्तदूरम् ॥३३॥ ज्वलत्क्रोधदावानलं मानगोत्रं छलाशापिशाचीकुलाकीर्णगोत्रम् । महालोभदुःपूरगर्ताकरालं रसोत्तालपञ्चेन्द्रियव्यालमालम् ॥३४॥ महामोहपल्लीशशोकादिभिल्लं तमस्तल्पसङ्कल्पजल्पाच्छभिल्लम् । कलिश्राद्धरामाशिवाघोररावं रटच्चाटुवाचाटदोषाटदावम् ॥ ३५ ॥