________________
१४६
श्रीजैनस्तोत्रसन्दोहे
[ श्रीमहेन्द्र
पुरी स्मेव हर्षान्नरीनर्त्ति काशिर्भवज्जन्मनि प्रस्फुरत्सौवराशिः । चलद्वैजयन्ती करैर्मन्यमाना कृतानुग्रहं पावनं स्वं समाना ॥ १५ ॥ धराधीश्वरस्याश्वसेनस्य गेहे त्वयीशागते पुण्यलावण्यदेहे । सुदीपोत्सवोऽपि माङ्गल्यरूपे जने विश्वरूपे सदोधोतरूपे ॥ १६ ॥
2
ग्रहाः कौतुकेनेव यद्रष्टुकामा ययुः स्थानमुच्चं समस्ता अवामाः । क्षणे जन्मनो ज्ञानलक्ष्मीसनाथः शिवं मे स दद्याज्जनः पार्श्वनाथः ॥ पपौ स्तन्यमन्यार्भवत् यो न मातुः स्मितैरेव सा तेन सम्प्रीणिता तु । ययौ वृद्धिमङ्गुष्ठपीयूषपोषैः शिशु फलैवामृतैरस्तदोषैः ॥ १८ ॥ क्षमायां द्विधा मन्दमन्दं दधानं पदं वीक्ष्य मातापि यं सावधानम् । हृदीदं दधौ जङ्गमः कल्पवृक्षः कथं मेऽङ्गणेऽसौ नमद्देवलक्षः ॥ १९॥
विभुः शैशवे हेलया नागराजं ज्वळवन्हितोऽमोचयदाहभाजम् । कृपालुश्च यः प्रापयामास ऋद्धिं स मे पार्श्वनाथः क्रियात् कार्यसिद्धिम् ॥ क्षमोsपि प्रभुयैवने राज्यभारं वितृष्णो न शिश्राय जानन्नसारम् । किल ज्ञानवान् यो महानन्दलुब्धः कथं सोऽल्पऋद्ध्या भवेद् विप्रलुब्धः ॥ ततिर्योषितां रूपतो या घृताची निरस्ता समस्ताऽपि चाशापिशाची । त्वया मोहमल्लं पराजित्य देवाऽनिशं तेन मे त्वत्पदद्वन्द्वसेवा ॥ २२ ॥ कथं प्राणिति प्राणवन्मोहजेतुः पुरस्ते स लोभद्विषस्तस्य केतुः । हते वा नृपे सेवकस्तत्सपक्षः किमु स्यात् प्रभूणां न वध्यो विपक्षः ॥
गृहे सुव्रतोऽपि व्रतं यद् त्वमीशाग्रहीरत्र हेतुं तु के वक्तुमीशाः ? परं वाक्यदश्येंवमाचार एष त्वया भाविनां भाविनां लब्धरेषः ॥२४॥