________________
सूरिसूत्रितम् ] श्रीपार्श्वनाथस्तोत्रम् ।
.
.
.
कुदेवान्तराणां कृता चाटुदाऽऽशी रसज्ञे! रसज्ञाऽपि किं वश्चिताऽऽसीः । तव क्षारनीरयेतो नो पपाथ त्वमग्रे सुधाभं जिनस्तोत्रपाथः ॥ ५ ॥ क्षमासिन्धुरेकोऽपि निर्द्वन्द्वभावस्त्वमेवारुणः सप्रतापप्रभावः । अमित्रं जगज्जैत्रमुर्वीशमोहं तवाहन् ! स्तवायाभवं मागधोऽहम् ॥६॥ शिवश्रीकृते त्वद्विना वीतरागान्महेत् कः सुधीरन्यदेवान् सरागान् । अपास्यामृतं कोऽत्र वा तृछिदाऽलं पिबेदारनालं दहत्कण्ठनालम् ।। नमस्ते विभो ! विश्वविश्वैकभर्ने नमस्ते समस्तापदापातहरॆ । नमस्ते चिदानन्दकन्दाम्बुदाय नमस्ते गुणातीतसङ्ख्यार्बुदाय ॥ ८॥ नराः किन्नराश्चामरा यस्य सेवाममी कुर्वतेऽखर्वगर्वा न के वा । धुताः सम्पदः स्वं पदं याचमानाः प्रसादे सदापीशितुः सावधानाः ।। गराध्मातदर्पाः प्रसर्पन्ति सर्पा न मर्माविधो भूभुजां वावसः। निबद्धावनीविग्रहाः कुग्रहा वा घनोच्छृङ्खला नो खला दुष्टभावाः ॥१०॥ स्फुटं चौरिकावृत्तिशूरा न चोराः क्षुधाग्रस्तलोकाः समा नापि रोराः । यमस्यैव दूताः प्रभूता न भूता न देहेऽपि रोगाश्चिरं वाऽनुभूताः ॥ मदोन्मत्तकोपोद् धुराः सिन्धुरा वा न च व्याघ्रसिंहा महाघोररावा। न दावानला भूरिजिह्वाकराला न वाऽऽतङ्कदा वार्दिकल्लोलमालाः ॥ महाकोपकालानला भूमिपालाः सशस्त्रा न योधाः कलौ भीमभालाः । पुरस्तस्य पीडाहराः शुद्धवर्णा विभो ! येन जप्ता भवन्नामवर्णाः ॥
चतुर्भिः कलापकम् । तदैकव वामोदरस्थेन देव ! त्वया राजिता रत्नगर्भा नवैव । तस्त्वत्सम कापि पुण्यं न माता पुरासूत पुत्रं पवित्रावदाता ॥१४॥
. स्तवायाऽभवं नाथ ! वे मागधोऽहं । इति भाति ।