________________
१४४
श्रीजैनस्तोत्रसन्दोहे [ श्रीमहेन्द्रशर्मप्रदानिशमशर्मवतामशर्म शर्मन्ननन्त तमशर्म शिवस्थशर्मन् । शर्मप्रराहि सुरशर्म मनुष्यशर्म शर्मप्रमोच्य भवशर्म तदाश्वशर्म ॥९॥ शर्म श्रितातुलमशर्म ममानुशर्म शर्मप्रधावितमशर्म मनःकुशर्म । शर्मक्षयि प्रतनुशर्म वहाप्यशर्म शर्मत्विदं हि शिवशर्म नुवेत्य शर्म॥१०॥ इत्थं श्रीजयराजपल्लिनगरीसीमन्तिनीशेखरः
__ श्रीमत्पार्श्वजिनेश्वरः सविजयप्रौढप्रभावाकरः । शर्मप्रौढपदत्रिरूपकलिताधन्तान्तरालाखिल
प्रोल्लासिक्रमवृत्त....विनुतः सम्पद्यतां शर्मणे ॥११॥
[३४] श्रीमहेन्द्रमूरिसूत्रितंश्रीजीरिकापल्लीतीर्थालङ्कारश्रीपार्श्वनाथस्तवनम् ।
प्रभु जीरकापल्लिवल्लीवसन्तं लसद्देहभासेन्द्रनीलं हसन्तम् । मनःकल्पितानल्पदानकदक्षं जिनं पार्शमीडे कलौ कल्पवृक्षम् ॥१॥ बुधा रत्नभूताः सुधासारवाचः क्व ते मन्दधोः क्वाहमेषोऽल्पकाचः । तथापीश ! भक्तिस्तु मां मौनमेषाऽधुना मोचयत्येव मान्त्रीव लेषा ।। बुधानां गिरस्तुष्टुवुर्य महार्था ममाज्ञस्य कास्तत्र चैता अपार्थाः । । विहायोऽध्वना येन वा वैनतेयः प्रयातः स किं चाटकरण हेयः ? ॥ पुरा भूषणे दूषणे निर्विशेषा परिस्पृश्य मिथ्यात्वमातङ्गमेषा । मतिमें जिन ! ध्यानतीर्थेषु शान्ताऽधुना स्नातु शुध्यै सतीवातिकान्ता ।।