________________
१४८
श्रीजैनस्तोत्रसन्दोहे [ श्रीभुवनसुन्दरपरिभ्रम्य भीमं भवारण्यमापं सरस्वत्युपान्तं विभो ! ते दुरापम् । अपामागर्म चामृतं यद्वरीयस्ततो मे पदं निर्वृतेनों दवीयः ॥३६॥ सुधावर्षिणी वक्त्रचन्द्रप्रभा ते सदा भासमाना स्मृता सुप्रभाते । मनो मोदयन्मे परं दृक्चकोरस्तदा नाप तृप्तिं विषादः स घोरः॥ तवाज्ञामहं मौलिमौलिं सयत्नं परागं पदाम्भोजयोर्भालरत्नम्। गुणोत्कीर्चनं कण्ठभूषामपारं स्मृति नाथ ! दध्यामरस्तारहारम् ।। प्रपा शीतला ते कृपा जीवलोकेऽभ्रमं त्वत्समं यत्परं नालुलोके । मनः पापतापाध्वखेदावभग्नं जगत्रातरत्राऽत एवाद्य लग्नम् ॥ स्मृतौ मानसं निर्मलं मन्यमानः प्रभोदर्शने दर्शने स्वे पुनानः । नतौ भालदुर्वर्णवल्ली लुनानः स्तुतौ स्यामहं वावदूकाभिधानः ॥१०॥ पुरो दह्यमानागुरुस्तोमधूपभ्रमधूममालोक्य रूपैकभूप ! । तवेन्दोवरश्याममूर्तेर्हताशः कलिदैशनाशं ननाश श्रिताशः ।। ४१ ॥ सतीवास्ति रत्नत्रयी रागरोषादिभिर्दस्युभिर्मण्यमाणापदोषा । प्रमत्तस्य मे त्वद्विधेयस्य तारं पुरः पूत्करोम्येष ते तामवारम् ॥४२॥ भवेच्चेन्मुखे लोललोलासहस्रं तथा जीवितं पूर्वकोटीरजस्रम् । स्तवैर्नव्यनव्यैः स्तुवे चेदुदारं ततोऽपीश ! तृप्तो मुदामस्मि नारम् ॥ प्रकृष्टाणवः सन्ति यावन्त एते त्रिलोकीगता मोधितानङ्गहेते !। तवांही प्रणनिर्मि तत्संख्य वारं ततोऽपीश ! तृप्तो मुदामस्मि नारम्॥ एवं देवाधिदेवं प्रतिदिनमपि यो जीरिकापल्लिरानं
पार्श्व स्तौति त्रिसन्ध्यं त्रिदशविटपिनं भक्तिभाजामवन्ध्यम् । विश्वा विश्वाद्भुतास्ता नवनिधिरुचिरा ऋद्धयः सिद्धयो वा
तस्योत्सर्पति पुंसः सपदि जगति याः श्रीमहेन्द्रस्तवार्हाः ॥४५॥