________________
सूरिविरचितम् ]
श्रीपार्श्वनाथस्तवनम् ।
अथ भगवद् गुणस्तुतावलसायाः स्वीयरसनाया उपदेष्टुमित्याहएवली न रसना मिन ढौके पासनाह हीयडा मन मूंके । एक एकहतकोप भमाडी मेरुतुंग गुरु वाणि सुमाडी ॥ १२ ॥
__अवचूरिः । व्याप्नोषि । 'वर्फ रफ ' इत्यादि 'रफ' गत्यथों धातुः । आङा यह व्याप्त्यर्थः । आडोऽभिव्याप्स्यर्थत्वात् । अयमर्थः । यद् विष्णुः पालक: सूर्यः प्रकाशक इति तत्तद् गुणव्याप्तिरिति । किंविशिष्टस्त्वम् ? 'सुयाली' सुः-पूजायाम, सुरासुरैः पूजितां यां-तीर्थाधिपत्यलक्ष्मी अलते-भूषयतीत्येवं शील: 'सुयाली। सु-अतिशयेन यां-समवसृतिलक्ष्मी अलतीत्यादिना वा सुयाली इति । 'ह' इत्यागमे । सिद्धान्ते हि तीर्थकरश्रीरतिशयेन वर्ण्यत इति । तथा 'रावी' रावः-शब्दो-धर्मस्य भाषणं विद्यते यस्य स रावी । तथा सुयः सुष्टु-शोभनं अर्थात् मोक्षं-सर्वोत्तमं वस्तु याति-व्याप्नोतीति एकादशपद्यार्थः ॥ ११ ॥
[एव लीनरसनामिन ! ढोकेऽपासनाह ! हीयडाऽऽमन मुके !। एक एकहतकोपभमाडी मेरुतुङ्ग गुरुवाणी सुमाडी ॥ ]
हे इन !-स्वामिन् ! हे 'अपासनाह ! ' अपासनं-मरण भासामस्त्येन हापयति-त्याजयतीति 'अपासनाह !' शाश्वतपदप्रदत्वात् । अहं 'लीनरसनां प्रति ढोके ' लीनेव लीना-आलस्याल्लुकितेति यावत् । लीमा चासो रसना च लीनरसना तां तव स्तवाय उत्साहयामि इत्यर्थः ॥ 'एवः' अवधारणे । व्यवहितोऽपि क्रिययोपयुज्यते । ढोके एवेति। किं रूपोऽहम् ? एक:-अद्वितीयः, संसारे सर्वेषां अपि एकाकित्वात् । अथवा एक:-श्रेष्ठः, योऽर्हन्तं लब्धवान् स श्रेष्ठः इति । तथा 'एकहतकोपभमाडी' हता कोपस्य भा-प्रभा यया सा हतकोपभा । एका-केवला । एका च