________________
श्रीजैनस्तोत्रसन्दोहे . [ श्रीजयकीति
~
~
~~
अवचूरिः।
हे 'ईबाटन !' ई-लक्ष्मी त्रायते इति ईत्रं-लक्ष्मीपालकं अटनंविहारो यस्यासौ तत्सम्बोधनम् । भगवद्विहारे सपञ्चविंशतियोजनशतान्तः ईतिवैरिमारिदुर्भिक्षस्वपरचक्रभयाद्यभावात् जनाः परमसम्पदः सजायन्ते इति पुकमेतदामन्त्रणम् । भवान् करवा 'या' उपमानार्थः । करमिव करंप्रायश्चित्तदानादि 'आट'-जगाम । 'अर्थ' इति अधिकारार्थे । यो यदधिकार अशुभं आचरितवान् तस्य तदधिकारकरं प्रायश्चित्तरूपं कृतवानित्यर्थः । किंविशिष्टो भवान् ? 'भरी' भतिशयवान् । तथा 'बाधाऽचल !' बाधनं बाधः-शीतोष्णादिपीडा तेन न चलति-न क्षुभ्यतीति बाधाचल् ! । अयमुपनयः । यो निजजनपदसम्पत्पालनाय दिग्विजययात्रापरायणः स्वप्रतापातिशयत्रासित द्विषद्गणः शीतोष्णक्षुत्पिपासाद्यनातुरः सम्यग न्यस्तन्यायानुसारिकरः स एव खलु प्रभुः । इति, स एव च सर्वतो वर्द्धते इत्याह । 'अ' इति सम्बोधने । हे प्रभो ! भवान् रराध-ववृधे । 'राधं च वृद्धौ' इति धातोः रलयोरैक्यम् । रलयोर्डलयोः, क्वचिच्छसयोः' ( ) इति वचनात् । कस्मिन् मध्ये ? 'ऊले' उ-दीप्ति लाति-गृह्णातीति
लो-दीप्तिमान् जनस्तन्मध्ये भवान् व ते स्म । अक्षयपदप्राप्त्या महोदयभाक्त्वात् । किं रूपः सन् ? ' करीतामतुंबः' करिणो-हस्तिनः तद्वत् इता:-प्रबलगर्जिततया जाता आमाः-सत्रिपातादयो रोगाः तेषां तुम्बोविनाशो यस्य स 'करीतामतुम्बः' । 'लुबण् तुबण अर्दने' इति तुम्बनं तुम्बः । तथा हे 'असेजताप ! ' ईज:-कामः तस्य ताप ईजतापः । ईजतापेन सह वर्तते इति सेजतापो, न सेजतापः असेजतापस्तस्य सम्बोधनम् । हे 'अय !'-अनुकूलदैव ! त्वमेव अनुकूलं दैवं नाऽन्यदित्यर्थः । हे 'नील !' नीलवर्णत्वात् । हे 'हरितुम्फ ! ' हरि-मृत्यु तुम्फति-हिनस्तीति हरितुम्फः। अजरामरपदप्रदायित्वात् । अथेति माङ्गलि. क्यार्थे । त्वं उवा-दीप्त्या 'आवी' अ:-कृष्णः, अविः-सूर्यः तो आरफ