________________
१२६
श्रीजैनस्तोत्रसन्दाहं [श्रीकतनामपिशाचदुर्मुद्गलवानमन्तरा महोरगा राक्षसयक्षकिन्नराः । परेऽप्यसदृष्टिसुरास्तव क्रमाश्रितान् न हन्तुं प्रभविष्णुविक्रमाः ॥१०॥ भयंकरा भिल्लभैरैर्धनुर्धरैः सुदुर्गमा कर्कशकर्करोत्करैः । अलकनीया गिरिकूटकाटिभिर्विसङ्कटा कण्टकितैस्तरूच्चयैः ॥११॥ अपीदृशी त्वत्पदपद्ममण्डिता बलातुलैरिबलेरखण्डिता। सुभूरभूत् पल्लिरियं पुरीनिभा सतां हि सङ्गः शुभसम्पदां पदम् ।युग्मम्।। सदा त्वदास्यद्युतिसारसागरे सुवृत्तमुक्तोपमदन्तसन्ततौ । सनेत्रमीने फणभृत्फणामणिप्रभाः प्रवालाङ्कुरवद् विरेजिरे ॥ १३ ॥ प्रभा भवत्यश्चति धोरताखिला श्रयत्यपि श्री: कलयत्यलं कला । इयर्ति मुक्तिर्न चिरात् तमादरात् प्रयासि यस्य त्वमिह प्रसन्नताम् ॥ एवं पन्नगराजराजितपंदं पद्मावतीपूजितं
जीरापल्लिपुरीपुरन्दरमहं पापच्छिदेऽस्तग्रहम् । संस्तुत्योदयधर्मभासनपर श्रीपाश्वतीर्थङ्करं ।
नाथे नाथमिदं तदघ्रियुगले चेतो ममालीयताम् ॥१५॥
[२९] नवग्रहस्वरूपंगर्मितं श्रीपार्श्वजिनस्तवनम् ।
अरिहं थुणामि पासं लच्छिनिवासं गुणाण आवासं । दुरियारिकयविणासं पसमियपावं नमह पासं ॥१॥ सोलसविज्जादेवी पउमा विजया जया य वइरा । कलिकुंड धरण पासो पास जिणिदं नमसंति ॥२॥