________________
१२५
AAAAAAwnwwwmoran
~
गणिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् ।
[१८] श्रीउदयधर्मगणिप्रणीत श्रीजीरापल्लिपार्श्वनाथस्तवनम् ।
सुधाशनक्ष्माधरधीर ! जीरिकापुरीपुरन्ध्रीमृगनाभिपुण्डक !।
अयं जनः पार्थविभो ! विभावरीविभुप्रभान् भासयते भवद्गुणान् ।। अमेय ! वामेय ! जिनेश ! नेशते सुरासुरा अप्यखिलास्तव स्तवे । क्व तत्र मादृक्षजनस्य मूढतायुतस्य विस्फूर्तिमियति शेमुषी ? ॥२॥ तदप्यमन्दप्रमदप्रकर्षतः प्रभो ! गुणाणूंस्तव कांश्चन ब्रुवे । सधर्मतां संश्रयते रजोऽपि किं न भानुभानुप्रकरप्रभावतः? ॥३॥ न दृश्यते नाथ ! तवातनुस्तनुः प्रभाप्रभावः पुनरगुतावधिः । महातमो हन्त्यणुरप्यथांशुमान् महस्विमाहात्म्यमहो महत्ततः ॥४॥ नितेषु सर्वेषु सुरेष्वदृश्यतां जिनेश ! जागर्ति भवान् प्रतापवान् । तपे हि तापेन सरस्सु निर्जलीकृतेषु वारांनिधिरेव गर्जेति ॥ ५ ॥ स्थलेऽनलेद्धे मकराकुले जले वने घने चापि महारणे रणे । त्वदीयनाम स्मरतां सतां सतां न जातु भीतिर्भुवि बोभवीति बैं॥६॥ कठोरचोरस्फुटसङ्कटोत्करे स्वसद्मनीवाध्वनि यात्रिका जनाः । अपायमुक्ताः प्रचुरं चरन्ति यन्महान् प्रतापः खलु तावकः सकः ॥७॥ स कासकण्डूश्वयथुक्षतभ्रमिस्फुरन्मरुत्पित्तकफज्वरादिभिः । नरो न रोगैरधिपाभिभूयते शरण्य ! यस्त्वां शरणं प्रपद्यते ॥८॥ न तस्य दस्यूरगवारिवारिधिद्विपद्विपद्वेष्यहितानलादयः । भवन्ति भीत्यै भयभित् त्वमीश ! यन्मनोऽम्बुजे राजसि राजहंसवत् ॥