SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ૦૨ श्रीजैमस्तोत्रसन्दोहे दिष्टचा स्तम्भनकेश ! पार्श्व ! भगवन् ! नानागुणग्रामणीरेषा श्रीजयसागरेण रचिता स्वल्पाक्षरापि स्तुतिः । तर्क व्याकरणादिशास्त्रविदुषां यायादुपादेयतां सौवर्णाभरणं सुरत्नखचितं यद्वा न कस्य प्रियम् ॥ ५ ॥ [ श्रीजयसागर - अवचूरिः । 'दिष्ट्या स्तम्भनकेश ! ' इत्यादि, अत्र दिष्टया हर्षेण नानागुणग्रामणीः इति कर्तुर्वक्तुर्वा अनेकसम्यक् शुद्रयादिना गुणसमूहप्राप्तिकारिणीति स्तुतेर्विशेषणम् । शेषं पूर्वार्द्ध सुगमम् । अथ आशीर्वचनद्वारेण स्तुतेप्रह्यतामाह - तर्केत्यादि०, तर्कव्याकरणादिशास्त्रे विद्वांसस्तेषामेव एषा स्तुतिर्मत्कृता उपादेयतां प्राह्यतां यायात् गच्छतु, न मूर्खाणाम् । यतः -- मूढाः काप्रहग्रस्ता न सूकं बहुमन्यते । arari केवलं विष्ठा मिष्टा भाति न शर्करा ॥ -. अमुमेवार्थे दृष्टान्तेन दृढयति । यद्वा-अथवा सौवर्णाभरणं- सुवर्णमयालङ्कारः अन्यच सुरत्नखचितं जात्युज्ज्वलमाणिक्यसंबद्धं कस्य सचेतसः प्रियं प्राह्यतयाऽभीष्टं न भवति ! । अपि तु सर्वस्यापि तत् प्रियमेक भवतीति ॥५॥ ॥ इति 'योगात्मना ' यमकबन्धश्रीपार्श्वनाथस्तवावचूरिः समाप्ता ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy