________________
शिष्यविपवितम् ] श्रीपार्श्वजिन स्तवनम् ।
[ २१ ] श्रीरत्नशेखरसूरि शिष्यकृतं महीशानापुरालङ्कार श्रीपार्श्वजिन स्तवनम् ।
श्रीमान् पार्थः प्रभुरभिमतं भावभर्तुर्बिभर्तु स्मर्तुः पुंसः पुरवरमहीशान को ववर्तसः । रानं भारवत्तिलकमलके भाति यस्य स्मसरे
स्तार्तीयीकं नयनमनिभं चित्रभान्वात्मकं तु ॥ १ ॥ श्रीवामा भूर्भवतु भवतुद् द्वयीपुण्ड्र दम्भात्
साक्षात्कृत्याद्रढयदिति यः सत्सुरत्नव्यवस्थाम् । स्थित्या तुल्येऽकलयत किल ज्ञानशीले फलादौ
ताभ्यामत्राभ्यधिकमहिमामर्शनं दर्शनं तु ॥ २ ॥ विश्वाधीशः शमयतु सतामश्व सेनाङ्गजन्मा
जन्माद्यर्त्तीः प्रतिकृतिगतैर्नेत्रयुग्मोद्ध (च्च) पुण्ड्रैः । तुल्यावस्थौ विभवमदनौ ज्ञापयन् कार्यरूपौ
धर्मं प्रोचं न्यगददनयोः कारणं यस्त्रिवर्गे ॥ ३ ॥ सत्वानां स्यात् सुहृदसुहृदोस्तुल्यवृत्तिर्यदा सौ
बुद्धिः शुद्धा सपदि घटते केवल श्रीस्तदैव । सव्यान्याक्ष्णोवि समभृता पुण्डभङ्गया ममास्ये
मूर्तिर्यस्य ध्रुवमिति वदत्यस्तु पार्श्वः श्रियेऽसौ ॥४॥