________________
सूरिविरचितम् ]
श्रीपार्श्वनाथस्तोत्रम् ।
विभो ! तवासेवनयाऽनयाऽनया निवारिता वाच्यमया मया मयाः।। अतः प्रसादाद् भवतोऽवतो वतोत्तीर्णोऽस्मि दुःखात् परमारमार मा ।। यन्मौलिदेशे त्वमदा मदामदा वाञ्छार्थसम्पत्तिकरं करं करम् । . न तन्मनोऽरस्त हरौ हरौ हरौ मायामये नापि भवे भवे भवे ॥४॥
अवचूरिः । 'विभो.'
हे विभो ! तव आसेवनया-पर्युपास्त्या, अनया-अधुनैव क्रियमाणया अनयाः-उन्मार्गमथा निवारिताः किम्भूता द्या (?) अनया ? इत्यत आहवाच्येत्यादि० वाच्यमया:-अवर्णवादमयाः कायवाङ्मनसोद्वेजकाः सङक्लेशरूपा येभ्यस्ते वाच्यमयाः । मया मयाः-करभाः इति यत एवं अत: कारणात् भवतः-तव अवतः-जगद् रक्षतः, प्रासादाद् बत इति विस्मये। दुःखात् उत्तीर्णोऽस्मि इत्यर्थः ।
अन्यथा(द्वा!) परमेत्यादि०, परमा-प्रकृष्टा रमा-श्रीः, मा-इति माम् आर-प्राप. लक्ष्मी च प्राप्तोऽहमित्यर्थः । आम 'अमादेश' ( ) इतिसूत्रेण अमा सह युष्मदः स्थाने मा इत्यादेश इति ॥३॥ ... यन्मौलिक
हे देव ! यन्मौलिदेशे-यस्य मस्तकोपरि इत्यर्थः । त्वं अदाःदत्तवान् । कीदृशमदा-जात्यादयः, आमाः-रोगाः, मदाश्च अमाश्च मदामास्तान्' द्यति-छिनत्ति बः मदामदाः, किं त्वं दत्तवान् ? कर-दक्षिणहस्तम् । कीदृशम् ? वाञ्छार्थसम्पत्तिकरम् समस्तवाञ्छितसिद्धिविधायकम् । तथा कं-सुखं रातीति करं सुखदम् । कस्येदं विशेषणद्वयम् । यन्मस्तके त्वं हस्तं दत्तवान् तस्य किं जातमित्याह-न तन्मनो इत्यादिः तस्य न मनोऽरंस्त-न रमते स्म । केष्वित्याह-हरौ-नारायणे, हरौ-इन्द्रे, हरौ-सूर्ये, तथा नापि भवे-ईश्वरे मयाम ये-मुधादेवत्वाभिमानभाजि इत्यर्थः । एतद विशेषणं सर्वत्र हर्यादिषु सम्बन्धनीयम् । भवे भवे प्रत्येक जन्मनीति। अयमिह भावः-यन्मौलौ त्वं करं दत्तवान् तस्य मनो नान्यस्मिन् लौकिकदेवादी रमते, नहि कश्चित् प्राप्तपर्याप्तपरमानभोजनः कथं(?) कुशकवलमभिषतीत्यर्थः।।
EPTET