________________
जैनस्तोत्रसन्दोहे
[श्रीजयसागर
अहो तवास्था चरणे रणेरणे यदद् भुताकारधरा धराधरा । सुराङ्गना स्वान्तमनामनामनानयद् विकारं न विभा विभा विभा॥
अवचूरिः । 'भिन्दान' दूरीकुर्वाणम् । किं तत् ? 'एनः' पापम् । कीदृशम् ? 'सकलं' निरवशेषम् । कलङ्कान्-असद्भूतदोषारोपान् लाति-गृह्णातीति ‘कलङ्कलम् । एवंविधं 'वामेयं' वामासुतम् श्रीपार्श्वजिनं 'आहुः' कथयन्ति कवयः । सन्शोभनः शुभभाग्यं यस्थ स 'सदयः' ( तथा दयया-कृपया उदयं-वृद्धि थाति 'सदयोदयः,' अथवा दयाया उद्भबो यस्मात् ‘सदयोदयः' । तथा अदभ्र इत्यादि । अदर्भ-सर्वातिशयादू बहुलं महः-शरीरातिर्देवादिकृतउत्सवो वा वस्य स 'अनमहाः', महन्तश्च ते आमाश्च-रोगाश्च तान् हन्तीति 'महामहः' । एवंभूतः स वामेयो 'मे' मम 'मुदे' हर्षाय भवत्विति क्रिया ।
'अहो ! अहो इत्याश्चर्ये, तव-भवतः आस्था-ढिमा चरणेचारित्रे च रणो-भावरणः संसारः तस्य ईरणं-क्षेपणं यस्मात् तद् रणेरणं तत्र रणेरणे । यद्-यस्माद् अद्भुताकारधरा-हृदयाक्षेपकरूपधारिणी । धरां-पृथिवीं अधरयति सौन्दर्यादिगुणैः, प्रोच्चैः स्वर्गवास दिना वा अधःकरोति या सा धराधरा । सुराजना-देवनारी तासां स्वान्तं- मनः अनाम! नामेति, न विद्यन्ते अमाः-रोगा यस्य स अनामः, नामेति कोमलामन्त्रणे । ततो हे अनाम! नानयत् -न प्रापयति स्म । विकार-विपर्यासभावम् । नवभेत्यादि०, भावाः परमनोमोहोपजनकाः प्रतीताः, भा-देहातिः, भावाश्च भाव भावभा च न वाश्च ता भावमाश्च नवभावभा । एषा पदघटना । पदार्थस्त्वेवम्
हे नाथ ! चरणे रणेरणे अहो तवास्था यदद भुताकारधरा धराधरा नवभावभा ईदृशा सुराङ्गना । हे अनाम ! तव स्वान्तं मनः न.म विकार ततून नियदद्दो चारित्रे दृढत्वं महदिति भावः ॥२॥