SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwwwwwwwwwwwwwww सूरिविरचितम् ] श्रीस्तम्भनपार्श्वनाथस्तात्रम् । न मत्समः कोऽपि परोऽस्ति दुःखी न दुःखहन्ता तु जिन ! त्वदन्यः। मया त्वदके निहितं शिरस्तत् तवोचितं यत् कुरु तन्ममाशु ॥९॥ वमेव तीर्थ मम देवता वं प्राणास्त्वमात्मापि मम त्वमेव । पुनः पुनर्विज्ञपयामि नाथ ! नीरोगतां यच्छ जगच्छरण्य ! ॥१०॥ इति स्तुतिः स्तम्मनपार्श्व ! नेल श्वेतस्विचेतोऽर्थितदानदक्ष !। ओस्तम्भतीर्थाभरण ! प्रसद्य भक्तस्य मे पूरय पूरयाशाम् ॥ ११ ॥ [२०] श्रीजयसागरविरचितं यमकमयं श्रीपार्श्वजिनस्तवनम् । योगात्मनां यो मधुरं धुरन्धुरं भिन्दानमेन: सकलं कलङ्कलम् वामेयमाहुस्सदयो दयोदयो मुदे स मेऽदभ्रमहामहामहा ॥ स्वोपज्ञावचूरिः। - नमो जिनाय । आत्मकृतं स्तवनमिदं व्याख्यायते .. योगो-ज्ञानदर्शनचारित्रलक्षणः तत्प्रधान आत्मा येषां ते योगारमान:सामान्यकेवलिनः तेषां मध्ये 'मधुर' मनोज्ञम् । 'धुरन्धुरं' मुख्यम् , तथा
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy