SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ म - अमस्तोपसन्दोह [ श्र [१९] श्रीजिनसोमसूरिपादैः प्रणीत श्रीस्तम्भनकपार्श्वजिनस्तवनम् । . . . . . . . . JABAR - - - - श्रीस्तम्भनं पाजिनं निरञ्जनं स्तुमः समग्रातिशयाश्रयं वयम् । फणीश्वरस्फारफणागणोल्लसन्मणिप्रभाडम्बरमण्डिताम्बरम् ॥१॥ स्तुत्यस्त्वमय॑स्त्वमसि प्रणम्यस्त्राता त्वमेव त्वमुपासनीयः । त्वत्तः प्रभुः स्तम्भनपार्श्व ! विश्वे न कश्चिदन्यः भिंतवत्सलोऽत्र ॥२॥ कृतानि तीर्थानि सुराः श्रिताश्च यन्त्राणि तन्त्राण्यपि सूत्रितानि । स्मृताश्च मन्त्रा न हि तैरसाधि फलं जिन ! त्वच्चरणप्रसत्तेः ॥३॥ अथ प्रभो ! जाग्रदभङ्गभाग्ययोगेन केनापि तवाघिसेवा । लेभे मया तेन कृपालुमौलेमन्ये मनःकामितमद्य जातम् ॥४॥ हित्वा वपुःपञ्चकमङ्गिनस्त्वद्ध्यानादनङ्गत्वमधुः शिवाप्ताः । चित्रं प्रसादात् तव चङ्गमङ्गं लब्ध्वाऽधुनाऽत्र स्मररूपिणः स्युः ॥५॥ ददे मुनीन्द्राभयदेवसूरेर्वपुस्त्वया दिव्यमपास्य कुष्ठम् ।। कृपां कुरु क्षिप्रमपाकुरुष्व दुष्कर्मरोगं मम सुप्रसन्नः ।। ६॥ कर्मव्यथाभिर्विधुरं वराकं त्वदेकभक्तं शरणागतं माम् । उपेक्ष्यमागस्य जगत्प्रभो ! ते कृपा कृपालोन हि किं भवित्री ? ॥७॥ असह्यबाह्यान्तरोगहन्ता त्वमेव विश्वेऽस्यनवद्यवैद्यः । जगत्प्रभो ! ते शरणागतस्य प्रसय मे रोगहरो भव त्वम् ॥ ८॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy