________________
कर्तृकम् ]
श्रीपार्श्वनाथस्तोत्रम् |
स्मरेशुलक्षं न तवेश ! मानसं न सङ्गतं मानमहीभृताऽनिभम् । निर्भ त्यजल्लोभपयोधिरोधनं धनञ्जयं क्रोधरिपुं जयन्नुमः ॥ ६ ॥ मह्यमेनं जगतामधीश्वरं स्वरं ब्रुवन्तं ससितं सुधारसम् । रसं त्रिलोकाद्भुतमंगमिश्रितं श्रितं न के कैः प्रवदन्ति कोविदाः ॥ ७ ॥ विदालोकैले किप्रकटनपटुः स्तम्भनपतिः
पतित्वादावङ्घ्रयोर्विनुत इति भावेन भगवान् ।
ܕ
गवा भव्य श्रोत्राण्यवट कुहराणीक्षुशिरया
रयात् प्रीणन् मह्यं तरुणकरुणं रातु चरणम् ॥ ८ ॥
[ १८ ] श्रीदेवसुन्दरसूरिप्रणीतं श्रीपार्श्वनाथस्तवनम् ।
९५
स्फुरत्केवलज्ञान चारुप्रकाशं फगामण्डपाडम्बरोद्योतिताशम् । महाकर्मपौधनाशे दिनेशं स्तुवे स्तम्भनाधीशपाश्व जिनेशम् ॥ १ ॥ प्रभो ! सद्गुणश्रेणिलक्ष्मीनिवासं भवन्तं प्रदत्तान्तरारिप्रवासम् । जगद्वन्ध ! पादाम्बुजं कोऽस्तहासं जनः स्तोतुमीष्टे लसदेवदासम् ॥२॥ महानन्दलक्ष्मीविलासैकगेहं तथापि प्रभो ! किश्चन त्वां स्तुवेऽम् । महाभक्तिरागेरितो नीलदेहं जिनाज्ञोऽपि भव्यावलीपूरितेहम् ॥ ३ ॥ जय त्वं प्रभो ! प्राप्तसंसारतीर ! स्फुरत्पापधूलीप्रणाशे समीर ! | महामानमायावनीसारसीर ! ज्वलत्कोघदावानले मेघनीर ! ॥ ४ ॥