________________
- श्रीजैनस्तोत्रसन्दोहे
[ श्रीअज्ञात
न रोगो न च सम्मोहो न शोको न च साध्वसम् । न दुःखं न च दारिद्रयमलं स्थातुं नते त्वयि ॥ ३॥ तव प्रभावतः स्वामिन् ! कलिकालो विनश्वरः । जज्ञे कृतयुगाश्लेष इव लोकोऽपि वैभवात् ।। ४ ॥ जय श्रीस्तम्भनाधीश ! श्रीपार्श्व! पुरुषोत्तम ! | चूरयनघसङ्घातं पूरयन् नरवाञ्छितम् ॥ ५ ॥
[ १७ ]
श्रृङ्खलालङ्कारमयं श्रीस्तम्भनपार्श्वजिनस्तवनम् ।
स्तवीमि तं पाश्वजिनं सदैव तं वतंसकं स्तम्भनपत्तनावनेः । वनेचरा मत्तमतङ्गजादयो दयोदधिं नाभिभवन्ति यं श्रितान् ॥ १॥ श्रितामराधीशमधीशमागता गता महासङ्गरगोचरं नराः । न राजिभिर्जेयवपुःपराक्रमाः क्रमानमन्मल्लमतल्लिकोत्कराः ॥ २ ॥ करा न किं राजभरस्य दुःखदाः खदारण! त्वां श्रयतां शमाश्रयम् । श्रयन्ति सिंहेन किमङ्कितं वनं वनन्त उच्चैर्मृगधूर्तसञ्चयाः ॥ ३ ॥ चयाय लक्ष्मीर्यतते प्रमेदुरा दुरायतिर्नश्यति तस्य सुप्रिया। प्रिया च पुत्राः सुजनाः स्युराश्रवाः श्रवाय यः पार्श्वगिरः प्रमोदवान् ॥१ दवानल: शाम्यति वारिधिर्धरा धराधरो मन्दिरमिन्दिराकुलम् । कुलं पिशाचादि कुलन्तमहतोऽर्हतो नमस्यां जगतोऽपि यः स्मरेत् ॥५॥