SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पषिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । एतत्कृत्यविधौ विलम्बमधुना कुर्वन्तु तोर्थानि नो किं ध्वान्तौघविनाशने दिनपतिः कुर्याद् विलम्ब क्वचित् ॥९॥ सत्तीर्थसप्तकमिदं भुवि सर्वतीर्थमुख्यं जगत्रयविपत्तिविनाशहेतुः। विघ्नं छिनत्त सुरराजकृतं....सन्तो भवन्ति परकार्यकृतौ हि दक्षाः॥१० विराजमानं वरमन्त्रवर्णैः श्रीसप्ततो स्तवनं सदैव ।। सूर्योदये ये सुधियः स्मरन्ति भवन्ति ते भूरिविभूतिभाजः ॥ ११ ॥ स्वकण्ठपीठे बिभराम्बभूवुये सप्ततीर्थीस्तवहारवल्लीम् । स्फुरत्प्रभावस्फुटरत्नरम्यां तदङ्गणे क्रीडति कामधेनुः ॥ १२ ॥ देयादियं विजयसेनमुनीन्द्रशिष्यशिष्यस्य सङ्घविजयस्य सुसप्ततीर्थी । दुष्टाष्टभीतिकजराजिहिमांशुलेखा सानन्दमङ्गलसदोदयसिद्धिवृद्धिम्।१३ इत्थ सप्तभयापहारनिपुणा श्रीसप्ततीर्थी स्तुता सप्तद्वीपसमस्तजन्तुहितकृत् सप्ताब्धिकीर्तिस्थितिः । यावत् सप्ततुरङ्गमो जलरुहां प्रीति विधत्तउंशुभि जीयात् तावदियं विपत्तिदलना सा सर्वभव्यात्मनाम् ॥१४॥ [१६] श्रीस्तम्भनपार्श्वजिनस्तवनम् । स्तुवे श्रीस्तम्भनाम्भोजराजहंससमं जिनम् । श्रीपार्श्वमिष्टदं सर्वविघ्नसङ्घातघातकम् ॥ १॥ श्रीदश्चिन्तामणिः कल्पपादपः कामदो घटः । न दाता त्वत्समो मुक्तिचङ्गश्रीसङ्गकारकः ॥ २ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy