________________
श्रीजैनस्तोत्रसन्दोहे [धीसविज्ञववीजापुरस्थितमहं प्रणमामि नम्रश्रीपार्श्वयक्षमतुलातिशयैकगेहम् । वैरोटयया स्तुतपदं जिनपार्श्वनाथं पद्मावतीहृदयपङ्कजचश्चरीकम्॥४॥ श्रीभीडभञ्जन इति प्रथिताभिधानः
श्रीपावसार्वमुकुटो जयमश्नुते स्म । कंसारिनामनगराबनिभासमानः
_प्रध्वस्तदुःखदुरितो हतविघ्नवृन्दः ॥ ५ ॥ श्रीगोडीपुरनायकं त्रिभुवनप्रत्यूहविध्वंसकं
साधुश्रेणिसरोजवासरमणिं सम्पत्तिसम्पादकम् । भेजे भक्तसमस्तदुःखदलनं निःशेषदापहं
कल्याणद्रुमसेचने जलधरं वामेयतीर्थाधिपम् ॥ ६ ॥ श्रीमन्तं वरकाणपार्श्वमवनीख्यातं भजे भक्तितो
वामाकुक्षिसरोजशोगचरणं श्रीअश्वसेनात्मजम् । दुष्टव्यालविषान्धकारहरणे स्निग्धं सरोजन्मना
महन्तं ग्रहशाकिनीनरपतिस्तेनादिभीतिच्छिदम् ॥ ॥ ७ ॥ श्रीमन्मालवदेशभूमिललनाभालस्थलीभूषणं
सेवेऽहं मगसीश्वरं जिनपति पाच प्रमोदप्रदम् । आधिव्याधिविनाशकं सुरबरध्येयं मनःपङ्कजे
दुष्टम्लेच्छन्नृपोत्थकष्टहननं कल्याणलीलालथम् ॥ ८ ॥ सप्तैतानि समस्तसंयमवतां तीर्थानि विघ्नं जवात्
विश्वप्राणपरांणि दैत्यविमुना निघ्नन्तु निर्मापितम् ।