________________
जैनस्तोत्रसन्दोहे [श्रीदेवसुन्दरअहं त्वां निरीक्ष्याद्य जज्ञे कृतार्थः सनाथीकृताशेषभल्याङ्गिसार्थ ।। तथा धन्यभावो ममावेश ! जातः सदा सेवकीभूतदेवेन्द्रजात ॥५॥ ममाद्याभवनेत्रयुग्मं पवित्रं महादोषमालातृणालीलवित्रम् । यतो दृष्टमेतद् गुणश्रेणिपात्रं त्वदीयं मया भाग्ययोगेन गात्रम् ॥६॥ वचः स्यात् तदेवात्र लोके प्रधानं भवन्तं स्तुते यद् गुणानां निधानम् । मनोऽपि प्रशस्यं भवेदेतदेव त्वमानन्दतो घ्यायसे येन देव ॥७॥ सदा देवलोके सुरेशा भवन्तं मुदाऽभ्यर्चयन्त्यद्भुतज्ञानवन्तम् । तथा पनगा नागलोके स्तुवन्ति प्रभो! मर्त्यलोके नरेन्द्रा नुवन्ति ॥८॥ प्रमोदेन येनार्यसे नाथ ! नित्यं विहाय प्रभाते समतान्यकृत्यम् । असौ संस्मृतौ नाथ ! नो बम्भ्रमीति क्षणात् सिद्धिवध्वा समं रमीति ॥ जिन! त्वां जनो यः सदा तोष्टवीति त्रिलोकीस्तुतोऽसौ क्रमाद् बोभवीति। तव ध्यानतः स्वं च यः पोपवीति स्वकर्माणि सर्वाण्ययं लोलवीति॥१०॥ मनो यो विधत्ते तव ध्यानवश्यं क्रमात् त्वं मनोऽभोष्टमाप्नोत्यवश्यम् । लभेताऽथवा कामितं को न कल्पद्रुमं संश्रितः पुण्यलक्ष्म्यैकतल्पः ।। स्फुरन्मोहमिथ्यात्वघोरान्धकारे प्रभो ! दुःषमाकालगे पञ्चमारे । मया भाग्ययोगेन दापोपमानस्वमद्यासि दृष्टो गुणैर्दीप्यमान !॥१२॥ तवालोकनादेव मे देव ! कष्टं समग्र जिन ! स्तम्भनाधीश ! नष्टम्। प्रभातेऽथवा भानुबिम्बेऽपि दृष्टे तमोजालमुर्त्या किमु स्थातुमीष्टे ! ॥ गुणागार ! संसृत्यरण्यान्तराले भवानन्यतीर्थावलोवृक्षजाले । मयापि स्वतो भ्राम्यता सार्थनाथः शिवाध्वन्यवापे भयौघाग्निपाथः ॥ सुपर्वमस्वर्गवीकामकुम्भस्फुरदेवरत्नादिका अप्यदम्भ ।। न भावा विभो ! दुर्लभाः किन्त्वपापं त्रिलोकोतले शासनं ते दुरापम् ।।