________________
सूरिप्रणीतम् ]
श्रीपार्श्वनाथस्तोत्रम् ।
व्याधिबन्धवधव्यालानलाम्भः सम्भवं भयम् । क्षयं प्रयाति पार्श्वशनामस्मरणमात्रतः ॥ ९ ॥
यथा नादमयो योगी तथा चेत् तन्मयो भवेत् । तदा न दुःकरं किश्चित् कथ्यतेऽनुभवादिदम् ॥ १० ॥ इति श्रीजीरिकापल्लीस्वामी पार्श्वजिनः स्तुतः । श्रीमेरुतुङ्गसूरेः स्तात् सर्वसिद्धिप्रदायकः ॥ ११ ॥ जीरापल्लीप्रभुं पार्श्व पार्श्वयक्षेण सेवितम् । अर्चितं धरणेन्द्रेण पद्मावत्या प्रपूजितम् ॥ १२ ॥ सर्वमन्त्रमयं सर्वकार्यसिद्धिकरं परम् । ध्यायामि हृदयाम्भोजे भूतप्रेतप्रणाशकम् ॥ १३ ॥
श्रीमेरुतुङ्गसूरीन्द्रः श्रीमत्पार्श्वप्रभोः पुरः । ध्यानस्थितिं हृदि ध्यायन् सर्वसिद्धिं लभेद् ध्रुवम् ॥ १४ ॥
20
કર