________________
૪૮
श्रीजैनस्तोत्रसन्दोहे
[ १० ]
श्रीमेरुतुङ्गसूरिविरचितं श्रीपार्श्वनाथस्तोत्रम् |
ॐ नमो देवदेवाय नित्यं भगवतेऽर्हते ।
श्रीमते पार्श्वनाथाय सर्वकल्याणकारिणे ॥ १ ॥
[ श्रीमेरुतुङ्ग
७
ही रूपाय धरणेन्द्रपद्मावत्यर्चिताये | सिद्धातिशयकोटीभिः सहिताय महात्मने ॥ २ ॥ अट्टे मट्टे पुरो दुष्टविघट्टे वर्णपङक्तिवत् । दुष्टान् प्रेतपिशाचादीन् प्रणाशयति तेऽभिधा ॥ ३ ॥ स्तम्भय स्तम्भय स्वाहा शतकोटिनमस्कृतः अधमत् कर्मणां दूरादापतन्तीर्विडम्बनाः || ४ || नाभिदेशोद्भवन्नाले ब्रह्मरन्ध्रप्रतिष्ठिते । ध्यातमष्टदले पद्मे तत्त्वमेतत् फलप्रदम् ॥ ५ ॥ तत्त्वमत्र चतुर्वर्णी चतुर्वर्णविमिश्रिता । पञ्चवर्णक्रमध्याता सर्वकार्यकरी भवेत् || ६ || क्षिप ॐ स्वाहेति वर्णैः कृतपञ्चाङ्गरक्षणः । योऽभिध्यायेदिदं तत्त्वं वश्यास्तस्याऽखिलाः श्रियः ||७|| पुरुषं बाधते बाढं तावत् क्लेशपरम्परा ! यावन्न मन्त्रराजोऽयं हृदि जागर्त्ति मूर्त्तिमान् ॥ ८ ॥