________________
सूरिप्रणीतः] श्रीचिन्तामणिकल्पसारः। .
कार्मणं याति दूरेण यन्मध्यात् केनचित् कृतम् ।। यन्त्रपानप्रयोगेण देहिनां नात्र संशयः ॥ १७ ॥ रक्तकणवीरपुष्पैदिशसङ्खयैः सहस्रसञ्जप्तम् । वश्याकर्षणकार्य करोति मन्त्राधिराजोऽयम् ॥१८॥ स्तम्भयति शत्रुवाचं पोतध्यानेन पोतपुष्पौधैः । ईतिस्तम्भं करोति विधिना वरवालुकां जप्त्वा ॥१९॥ अनवच्छिन्ना रेखा देया क्षेत्रेषु मूलमन्त्रेण । नाशयति शलभवृन्दं गुरूपदेशेन सञ्जप्तम् ॥२०॥ श्मशानकर्पटे खलु श्मशानाङ्गारराजिका च विषैः ।। धत्तूरकरसलिखितं परिजप्तं काहलीपुष्पैः ॥ २१॥ उच्चाटयति महेश्वरध्वजातिबद्धं समस्तशत्रुगणम् । मारयति चिताङ्गारैः परिजप्तं नास्ति सन्देहः ॥२२॥ इति सक्षेपेण मया कथितं चिन्तामणेः फलं सारम् । विस्तरतो विज्ञेयं बृहदुद्धारान्महामतिभिः ॥२३ ॥ इत्येवं तीर्थनाथप्रवरगुणगणं पार्श्वनाथस्य सम्यक्
चक्र चिन्तामणियः स्मरति विधिपरो भावशुद्धिस्त्रिसन्ध्यम् । सम्प्राप्नोत्याशु राज्यं त्रिदशपतिपदं तीर्थपत्वं च सिद्धि . का वार्ताऽशेषसिद्धिप्रदभुवनपतेः पादपद्मप्रसादात् ।।२४ ॥