________________
३८
श्रीजैनस्तोत्रसन्दोहे
[ ५ ] श्री तरुणप्रभसूरिविरचितं श्रीपार्श्वजिनस्तोत्रम् |
[ श्रीतरुणप्रभ
श्रीस्तम्भन ! स्तम्भनपार्श्व ! नेतः ! प्रतिष्ठितारिष्टघटापनेत ः ! | मृगारिनागारिमहाविनेत ! - जय प्रणम्रात्मशिवप्रणेतः ! ॥ १ ॥ वामेतर धरणोरगेण वामे च पद्मासनपद्मया त्वम् । निषेव्यमाणोऽष्टदले मदीये हृत्पुण्डरीके निविशस्व पार्श्व ! ॥ २ ॥ पदोस्तले नागकुलानि यस्याधिमस्तकं ब्रह्म परं स नन्द्यात् । दुर्वर्ण सू......... ......... रत्न.... शालश्री शोभन ! स्तम्भनपार्श्वनाथ ! ॥३॥ अर्हं परब्रह्म रविस्फुलिङ्ग ँ ही नमः श्री नमदिन्द्रवृन्द ! | प्रणम्यसे पार्श्व ! विषं हर त्वं जिनर्षभ ! श्री भवते नमो ही ॥ ४ ॥ दले दले मन्त्रपदादधस्ताद् वर्णोऽनुमानां रुचिरस्वराणाम् । सयागवाहैर्युगलैः प्रकीर्त्यः श्रीपार्श्व चिन्तामणिमन्त्र एषः ॥ ५ ॥ द्वितीयपङ्क्तौ वलयच्छदेषु तस्यौं पदाद्यं परमेष्ठिनाम । रत्नत्रयस्यापि च नाम नित्यं स ही नमोऽन्तं प्रयतः स्मरामि || ६ || दलस्थिताभिर्वलये तृतीये सभाजितः षोडशदेवताभिः । तुर्ये चतुर्विंशतिदेवमातृस्वनामभिः पत्रगतैः समयः ॥ ७ ॥ दिगष्टके दिक्पतयः सखेटा देव्योऽन्तरे श्रीअपराजितान्ताः । जयाजिता श्रीविजया च जम्भा मोहा च वीरा र (स) हिता महन्ति ॥ ८ ॥ अयस्वभावः प्रकटप्रभावो गुरूपदेशेन विना न गम्यः । ध्यानं च कर्मक्षय हेतुरस्याभीष्टप्रदं निर्विषये विधेयम् ॥ ९ ॥