________________
३६
श्रीजैनस्तोत्रसन्दोहे
धूम्राभमथोच्चाटे कृष्णाभं मारणं विनिर्दिष्टम् । मोक्षार्थं व्योमाभं ध्येयं श्रीपार्श्वनाथजिनम् यो योगी श्रावकः साधुः शुक्लध्यानपरायणः । ध्यायति श्रीजिनं देवं वामेयं भुजगावृतम्
भूतप्रेतपिशाचाद्यो नालम्भूष्णुस्तदग्रतः । नित्यावेलाकृतो रात्रिस्तथैकान्तरस्यन्तरः ( ? ) त्रि- चतुर्थ - पक्ष - मास - षण्मास - व्यन्तरादिकाः । ज्वराः सर्वेऽपि नश्यन्ति वातपित्तकफोद्भवाः
।
डाकिनी शाकिनी चण्डी याकिनी राकिनी तथा लाकिनी नाकिनी सिद्धा सप्तधा शाकिनी स्मृता एतेषां खलु ये दोषास्ते सर्वे यान्ति दूरतः । चिन्तामणिसुचक्रस्थपार्श्वनाथप्रसादातः
विलिख्य काञ्चनस्थाले श्रीखण्डेन धनेन च । चिन्तामणिमहञ्चक्रं दर्भमूलेन योगिना लिखनीयमिदं चक्रं गन्धधूपादिपूजितम् । जातिपुष्पसहस्रेण मूलमन्त्रेण पूजितम्
[ श्रीधर्मघोष
प्रक्षाल्याथ च दुग्धेन वारिणा वा प्रयत्नतः । ज्वरदोषादिभिर्ग्रस्तं पात्रं पातव्यमेव हि
एवं सप्तदिनान्याशु पुष्पजाप्यपुरस्सरम् । पीतं हि रोगदोषादीन् विनाशयति निश्चितम्
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥