SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतः ] श्री चिन्तामणिकल्पः । ३५ दिभिः सुगन्धद्रव्यैः पूर्वलिखितपटसन्दर्शनेन श्री पार्श्वनाथस्य जन्मकल्याणकदिने जन्मनक्षत्रे च सूरिणा शिष्येण च कृतस्नात्रेण ब्रह्मचर्योपवासरतेन च सदशवस्त्राभरणेन साधिष्ठायक श्री पार्श्वनाथप्रतिमाकृतपञ्चामृतस्नात्रपूजोपचारेण तदग्रे बलिधूपनैवेद्यपूजापूर्वं एष मन्त्रः प्रदातव्यः । अस्य करजापो लक्षमेकं कार्यः । पुष्पजापः श्वेतजातिपुष्प २४००० ततः सिद्धिः । सर्वकर्मकरः । [ ४ ] श्रीचिन्तामणिकल्पसारः । अष्टदलपद्मकोशे श्रीमत्पाश्व जिनेश्वरं न्यस्य । नागेन्द्र विधृतछत्त्रं प्रियङ्गुपत्रावदाताङ्गम् विजयाजयात्तचमरं वैरोट्यावन्दितं विगतमोहम् सत्प्रातिहार्य कलितं देवीपद्मावतीपूज्यम् श्री पार्श्वयक्ष सकलत्रसंस्तुतं चाष्टनागकुलकलितम् । विद्यादेवीषोडशपरिकरितं ध्यायेद् देवम् प्रणवं न्यस्य ललाटे जिनस्य गोक्षीरचन्द्रकरतुल्यम् । मायाबीजं हृदये ध्येयं तरुणार्कबिम्ब निभम् हरिकान्ताया बीजं काञ्चनवर्णं निधाय पदकमले । अर्हमिति देवबीजं ध्येयं शिष्यैर्गुरोर्वचसा शान्तिकपौष्टिकहेतोः श्वेतं ध्यायेच्छशाङ्ककरकल्पम् । पीतं स्तम्भादिविधौ वश्याकृष्टौ तथा रक्तम् ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy