________________
wwwm
श्रीजैनस्तोत्रसन्दोहे [श्रीधर्मघोषविद्या सौभाग्यमारोग्यपुत्रप्राप्तिविभूतयः । कल्याणं सफलं विद्धि करुणां च कुटुम्बितः दश त्रिंशदिशहितैः सहस्रैर्लक्षयाथवा । जपेद् यः परमं मन्त्रं स प्राप्नोति शिवालयम् ॥४२॥ विधाय सकलां पूजां प्रभोश्चिन्तामणेरपि । ढौकयित्वा च नैवेद्यं जलताम्बूलसंयुतम् ॥४३॥ ततः कर्पूरफालीनि घण्टानादपुरस्सरम् । आरात्रिकं विधायोच्चैर्मङ्गलं च प्रभोः पुरः ॥४१॥ लवणाञ्चलमुत्तार्य स्तूयात् स्तोत्रैः सदण्डकैः ।। पञ्चाङ्गप्रणतिं कृत्वा योजयेत् करसम्पुटम् ॥४५ ।। माता पिता जगत्राता भ्राता स्वामी त्वमेव मे । त्वमेव जीवितं नाथ ! भूयो जन्मनि जन्मनि ॥४६॥ श्रीमानतुङ्गशिष्येण धर्मघोषेण सूरिणा । रचितोऽनघकल्पोऽयं चिन्तामणिजगत्प्रभोः ॥४७॥
[३] अधुना चिन्तामणिसम्प्रदायः।
ॐ ह्री श्री अर्ह नमिऊग पास विसहर वसह जिणफुल्लिंग ही नमः । एष मूलमन्त्रः ।
चिन्तामणिचक्रं वहिकापट्टे कुङ्कुमगोरोचनाकस्तूरिकाकर्पूरा