________________
सूरिप्रणीतः]
श्रीचिन्तामणिकल्पः ।
३३
॥ ३० ॥
॥३१॥
॥ ३२ ॥
॥ ३३ ॥
॥३४॥
यन्त्रोद्धारः समासेन विवृतो मन्दमेधसा । जापध्यानक्रमं वच्मि विधिवद् गुरुणोदितम् अर्वाचीनफलं ज्ञेयं वश्यस्तम्भनमोहने । विद्वेषोच्चाटकर्माणि मनसापि न चिन्तयेत् शान्तिकं पौष्टिकं चापि धर्मध्यानविवर्द्धकैः । इहलोकार्थकृन्नित्यं सङ्घकार्ये विशेषतः करजापो द्विघा ज्ञेयः सृष्टिसंहाररूपतः । नन्दावर्तः श्रुते कार्ये शङ्कावर्तस्तु मङ्गले अथालम्बनहेतुत्वात् शुद्धः स्फटिकमालया। . कुर्याजापं प्रयत्नेन कर्मक्षयनिबन्धनम् अक्षतैः कुसुमैश्चापि जापः कार्यो निरन्तरम् । मूलमन्त्रस्य यत्नेन परलोकविधित्सया ध्यानकाले प्रथमतश्चन्द्रकान्तसमप्रभम् । पार्श्वनाथप्रभोर्बिम्बं संस्थाप्य प्रविचिन्तयेत् आत्मनश्च प्रभोश्चापि नान्तरं चिन्तयेद् बुधः । दुग्धधाराप्रवाहश्च विद्यमानं विचिन्तयेत् मूलमन्त्रस्य बीजानि षट्सु स्थानेषु योजयेत् । शिरसि वक्षःकरयोः सृष्टिमार्गेण धीधनैः नादबिन्दुकलाभ्यासाज्ज्योतिरुत्पद्यते पुनः । तत्प्राप्तौ च मनुष्याणां जायते परमं पदम् परमेष्ठिमुद्रयाथ सौभाग्यमुद्रयाथवा । ध्यायेत् परमबीजानि साधकः सुसमाहितः
॥३५॥
॥३६ ॥
॥३७ ॥
॥ ३८ ॥
॥३९॥
॥ ४०॥