SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [श्रीधर्मघोष समाप्तमिति । साह श्री वच्छासुत साह सहस्रकिरणेन पुस्तकमिदं गृहीतं सुत माह वर्तमानशान्तिदास पाल(पठ)नार्थम् । श्रीमानतुङ्गमूरिशिष्यश्रीधर्मघोषसूरिविरचितः श्रीचिन्तामणिकल्पः। किश्चिद् गुरूणां वदनारविन्दान्निशम्य सम्यक् परमार्थमुच्चैः । विलिख्यते स्वान्यजनोपकृत्यै श्रीपार्श्वचिन्तामणिमन्त्रकल्पः ॥१॥ नत्वा प्रणतनागेन्द्रं पार्श्वनाथं जिनेश्वरम् । चिन्तामणिसुमन्त्रस्य वक्ष्ये कल्पं समासतः ॥२॥ चिन्तामणिर्मूलमन्त्रः कामधुक् कल्पपादपः । मन्त्रराजः सर्वकर्मा निधिः कामघटोऽपि च ॥३॥ पाठान्तरःकल्पवृक्षो महातेजा महाचिन्तामणिर्नवः । कामधुक् कल्पराट् कर्मनिधिः कामघटोऽपि च ॥४॥ एतानि तस्य नामानि मन्त्रशास्त्रपरायणैः । प्रथितानि प्रयत्नेन ज्ञातव्यानि गुरोर्मुखात् ॥ ५॥ यस्य तस्य न दातव्यो मन्त्रोऽयं गुरुणापि हि यतः कुपात्रदानेन दोषाः स्युरुभयोरपि । कुलीनं धार्मिकं भक्तं पूजाकर्मरतं तथा । धनिनं दानशीलं च गुरोर्वचनतत्परम् ॥ ७ ॥ ईदृशं साधकं ज्ञात्वा मूलमन्त्रं प्रकाशयेत् । विधाय परमां पूजां दीपोत्सवादिपर्वणि ॥ ८॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy