SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतः ] श्री चिन्तामणिकल्पः । लब्धे मन्त्रे ततो धीमान् श्रीमत्पार्श्वजिनप्रभोः । विधायाष्टाहिकापूजां गुरोर्वस्त्रैश्च पूजनम् सौवर्णे राजते पात्रे ताम्रपात्रे सिताम्बरे । कर्पूरराचनावर्णैलिखेद् यन्त्रं प्रयत्नतः गुरुः प्रतिष्ठयेद् यन्त्रं पूजां कर्तुं समुद्यते । शिष्ये पवित्रगात्रेषु (sथ) धौताम्बरावृते मुखे शुचिस्थाने न्यसेद् यन्त्रं देवालये सुनिश्चितम् । पूर्वोत्तरमुखो भूत्वा श्रीपाणिपुटकेऽपि वा आत्मरक्षां विधायोच्चैर्भूमिशुद्धिं प्रकल्पयेत् । हंसपूजां ततः कृत्वा पुष्पं शिरसि धार्यते ईडायां वहमानायां ततः पूजाः समारभेत् । दक्षिणा वर्तमाना चेत् कृत्वा स्नात्रविधिं पुरा वीरासनोपविष्टेन पूजा कार्या सुधीमता । वामेतरकराङ्गुष्ठपवित्राङ्गुलियोजनात् शतपत्रैर्जातिपुष्पैर्वकुलैश्वम्प कैस्तथा । कर्पूरागुरुसम्मिश्रैः पूजा कार्या विवेकिना अथाहं सम्प्रवक्ष्यामि यत्रोद्धारं शुशोभनम् | येन विज्ञातमात्रेण फलसिद्धिः प्रजायते मध्यभागे प्रभोर्बिम्बं फणिमण्डपराजितम् । पार्श्वयक्षं यक्षिणीं च दक्षिणोत्तरभागयोः ३१ ॥ ९ ॥ ॥१०॥ ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥१७॥ ॥ १८॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy