________________
श्रीजैनस्तोत्रसन्दोहे
(श्रीभद्रबाहु
अस्य व्याख्या-वन्दामि-स्तौमि । के कर्मतापन्नम् ? पार्श्वनाथस्वामिनं अशोकाद्यष्टमहापातिहार्यपूजासमन्वितं चतुस्त्रिंशद् बुद्धातिशयोपेतं त्रयोविंशतितीर्थकरेभ्यः श्रीपार्श्वनाथस्वामिनः समवसरणभूतलं तत्सर्वबाय तस्य सम्बन्धापनमनेक प्राकारत्रयालकृतगोपुररत्नमयकवसीस(पिशीर्ष)तो. रणविराजितमवनितलानि । योजनहारीणि २प्रसन्नभव्यलोकहृदयानन्दकारीणि प्रधानाऽर्धमागधीभाषाविशेषेण समकालमेव चित्रस्वरूपनरामरादिजन्तुसंशयसदोहापोहसमन्वाद्यनेन (सम्पादनेन)स्वविहारपवनप्रसरेण ? पञ्चविंशतियोजनप्रमाणं चतुर्दिग्विभागमहीमण्डलमध्ये सर्वव्याधिरजोराशेरपसारणेन चतुर्विधश्रीश्रमणसङ्घदेवमरेन्द्रदानवचारणविद्याधरकिन्नरनारीतिर्यञ्च (क् ?)प्रभृतिभिरमृतरस(मिव) पीयमानं निरन्तरं चित्ताहलाददानमिति ध्यानमित्युच्यते । पुनरपि कथ. म्भूतम् ? उपसर्गहरमिति । कः शब्दार्थः ? उच्यते-'सृज विसर्गे' (पा. धा० १४१५) इत्यस्य धातोरुपशब्दपूर्वकस्य उपसर्जनं उपसर्गः । 'भावे' (कातन्त्रे ४सू० ७५० पृ. २१४ ) घञ्प्रत्ययः ‘नामिनश्चोपधाया मघो: ' ( कातन्त्रे सू० १०६ पृ० ११७ ) इत्यनेन सूत्रेण गुणे कृते पश्चात् 'चजोः कगो धुवानुबन्धयोः' (कातन्त्रे सू० ५४२, पृ० १९०) इत्यनेन सूत्रेण गादेशे कृते उपसर्ग इति सिद्धम् । 'हञ् हरगे' (पा. था. ८९९) इत्यस्य धातोः हरणं हरः ‘स्वरवृदृगमिग्रहाम् ( अल् ) (कातन्त्र सू० ५७५ पृ० १९४ ) ' अल्प्रत्ययः । 'नाम्यन्तयोर्धातुविकरणयोर्गुणः' (कातन्त्रे सू. ३२, पृ० १०७) हरः इति सिद्धम् । उपसर्गहरं-प्रत्यूहविध्वंसकमित्यर्थः । पार्श्वमितिशब्देन पार्श्वनामा थक्षः स उच्यते । तत्र पार्श्वनाथतीर्थसमुत्पन्नस्त्रयोविंशतितमो यक्षराट् अथचत्वारिंशत्सहस्रयक्षपरिवृतः श्रीपार्श्वनाथपादयुग्मसेवां करोति । पुनः कथम्भूतम् ! ' कर्मघनमुक्तं', क्रियन्ते इति कर्माणि, घनानि च तानि कर्माणि
१ 'यान्वमने ' इति ख.पाटः । २ 'प्रसरन्त' इति ख-पाठः। ३ 'समत्पाद्यनेम ,' इति ख-पाठः । ४ एष सूत्रपृष्ठाको दोयते १९५२ तमे वैक्रमीयान्दे हीराचन्द्रनेमिचन्द्रश्रेष्ठिना प्राकाश्यं नीतायाः कातन्त्ररूपमालाया आधारेण ।