________________
ॐ ह्रो श्री पार्श्वनाथाय नमः।
अनेकजैनपूर्वाचार्यविरचितः श्रीजैनस्तोत्रसन्दोहः। द्वितीयो विभागः।
[] श्रुतकेवलिश्रीभद्रबाहुस्वामिमूत्रितं श्रीद्विजपार्श्वदेवगणिरचितलघुवृत्त्या विभूषितं
उपसर्गहरस्तोत्रम्।
धरणेन्द्रं नमस्कृत्य, श्रीपार्श्व मुनिपुङ्गवम् । 'उपसर्गहर स्तोत्र-वृत्तिं वक्ष्ये समासतः ॥१॥
प्रणतसुरासुरललाटविन्यस्तमुकुटश्रेणिसमाश्रितस्य चञ्चचचूडामणिदम्मोलिप्रमुखरत्नप्रभाप्राग्भारप्रकाशितपादपकेरुहस्य श्रीपार्श्वनाथस्य सम्बन्धि मन्त्रस्तोत्रं 'उपसर्गहर 'नामप्रख्यातं पञ्चगाथाप्रमाणम् । तस्य मया कथितपद्धोपदेशेन अस्यैव स्तोत्रकल्पानुसारेण चात्मनः स्फुटावबोधनिमित्तं संक्षिप्तावृत्तिर्विधीयते । [ मध्यगाथा ] तस्य 'चायां गाथामनुक्रमेणाह
उबसग्गहरं पासं पासं वंदामि कम्मघणमुक्कं । विसहरविसनिन्नासं, मंगलकल्लाणआवासं ॥१॥ 'वांचं ' (2) इति ख-पाठः ।
-
-