________________
स्वामिप्रणीतम् ] उपसर्गहरस्तोत्रम् । च 'क्वचित् परनिपातोऽपि' इति ( वचनात् ) कर्मघनानि तैमुक्तम् , निबिडकर्मरहितमित्यर्थः । पुनरपि कथम्भूतम् ? — विषधरविषनि शं' दुष्टसर्पविषविनाशकमित्यर्थः । कथम्भूतम् ? 'मङ्गलकल्याणावासं' । मङ्गलमिति कः शब्दार्थः ? उच्यते- अगि-रगि-लगि-मगीति दण्डकधातुरस्य ‘इदितानुसूधातोः' इति विहितकुणादिकाडलभूतप्रत्ययान्तस्य अनुबन्धलोपे च कुते प्रथमैकवचनान्तस्य मङ्गलमिति रूपं भवति । मङ्गथते यथाहितमनेनेति मङ्गलम् । मझ्यते-विधिना गम्यते-साध्यते इति यावत् । अथवा मङ्गेसि धर्माभिधानम् । ‘रा ला आदाने ' इत्यस्य धातोर्मङ्ग उपपदे ' आतोऽनुपसर्गात् क: ' ( कातन्त्र सू० ५८७, पृ० १९५ ) इति कप्रत्ययान्तस्य आतो लोप इट् कित्रित्ती (१) ' अनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमुभ(रूपं?)सिद्धमिति । कल्याणमिति कः शब्दार्थः ? उच्यते-'अण रण' इत्यादिदण्डकधातोः कल्यशब्दपूर्वकस्य कल्यमणतीति कल्याणं कर्मण्यपि ' अस्योपधाया ( दीघों वृद्धिर्नामिनामिनिचट्ट') (कातन्त्रे सू० २२३, पृ० १३६ ) इत्यनेन सूत्रेण अकारदीर्घत्वम् । 'समानः सवर्णे दीर्धीभवति ( परश्च लोपम्') ( कातन्त्रे सू० २४ पृ. ५ ) इत्यनेन दीर्घ कृवे द्वितीयैकवचनान्तस्यैव कल्याण सिद्धमिति । आवासमिति कः शब्दार्थः ? उच्यते-वस निवासे' इत्यस्य धातोः आङ्शब्दपूर्वकस्य आवासनं आवासः। भावे घनि कृते च समासे 'अस्योपधाया०' (कातन्त्रे सू० २२३ ) इत्यनेन सूत्रेण कृते दीर्घ आवास-निवासं रमणीय स्थानं श्रीपार्श्वनाथजिनामन्यम् । इति गाथार्थः ॥ १ ॥ अधुना वृद्धसम्प्रदायः- .
उपसर्गहरं पार्श्व प्रत्येकमष्टयन्त्रमन्त्रदर्शनायाह-क्षकारनामगभिंतस्व बाह्येषु चतुर्दलेषु पार्श्वनाथ दातव्यम् । दलाप्रेषु हरः ४ इति न्यसेत् । बाह्ये ह हा हि ही हु हु हे है हो हो हर वेष्टयेत् , मायावीजे त्रिगुणं वेष्टिते यन्त्रम् । १
*वंकारनामगर्मितस्य पहिचतुर्दलेषु पार्श्वनाथ दातव्यम् । बहिहरर * द्वितीययन्त्रज्ञापकः पाठः पतितो भाति ।