________________
प्रस्तावना।
सूच्याख्या अतिवज्रतुण्डनखरा अन्यान्यदेहोर्ध्वगाः
कल्लोला इव वारिधेर्दशदिगुद्भूताः प्रसनुः क्षणात् ॥४०॥ अङ्गारोहणवस्त्रपात्रवलकस्तम्भादनैकादरान्
दृष्ट्वा तान् वसतेर्बहिश्च परितः श्वानौतुसर्पध्वनीन् । श्रुत्वा रौद्रतमान् प्रकम्प्रतनवो भीतेर्भरात् साधवो
ऽन्योऽन्याह्वानपराश्च नालमभवन् स्थातुं प्रनष्टुं तथा ॥४१॥ वस्त्रच्छन्नमुखे घटे प्रथमत: सजीकृते श्रीगुरु
दत्वा हस्तमथाजपद् गतभयो यावत् स तावच्छठः । सर्वाङ्गेऽप्युदितं व्यथासमुदयं हतु विषोडं प्रणि
न्होतुं वाप्यसहस्ततोऽनुगजनानूचे म्रिये भो ! म्रिये ॥४२॥ धिग्मामनात्मज्ञमदीर्घदर्शिनं येनाभिमानादपमानितो गुरुः । काणुः कः मेरुः क सरः क सागरः काहं हहा कैष च
सर्वसिद्धिवित् ॥४३॥ भीतः सोऽविकलं निजं विलसितं संहृत्य पीडावशा
दाक्रन्दंश्च कर्णश्च तत्र वसतौ गत्वा मुखात्ताङ्गुलिः । ऊचेऽज्ञानवशाद् यदत्र विहितं तत् क्षम्यतां क्षम्यतां
नातो वो विदधामि किञ्चिदशुभं साक्षी जनोऽत्राखिलः ॥४४॥ निरीक्ष्य दीनं स्वपदोविलीनं तं योगिराजं सुसमाधिमाजम् ।
चकार शान्तः प्रभुधर्मघोषः पुण्यप्रभायाश्च बभूव पोषः ॥४५॥"
प्रायशो ' देवेन्द्रविद्यानन्दधर्मकीर्ति' पदाङ्किताः श्रीमतः कृतयः । ताश्चैवम्-चैत्यवन्दनभाष्यवृत्तिः (सङ्घाचारनाम्नी), यो