________________
(५८)
जैनस्तोत्रसन्दोहे।
शून्याऽस्ते सकलाऽपरा यदिह भोः प्राप्ता विशङ्का हठात्
दृष्टोऽहं यदि नो श्रुतोऽपि किमु रे नात्र स्थितो नन्वहम् ॥३५॥ बाहुभ्यां जलधि तराणि यदि वा तं शोषयाणि क्षणा___ दाकाशं विपुलं प्रयाणि खगवद्रात्रौ च कुर्या दिनम् । शेषाहि दृढयोगपट्टतुलया बध्नानि सौवासने __ फूत्कृत्यापि गिरीन् नयानि गगने वायू रजोवद् रयात् ॥३६॥
युग्मम् ॥ भो ! भो ! यात पलाय्य दृष्टिपथतो मां मा वमन्ध्वं हठा
नो चेत् स्थेयमिह स्थिरैर्भवति यत् तद् दृश्यतां सम्प्रति । व्याहार्षुर्मुनयो मुधात्मनि मदं धत्से विधत्से न किम् ?
क्षान्ति ब्रूम इदं हिताय भवतो जानासि चेत् किश्चन ॥३७॥ नो चेद् यन्ननु रोचते प्रकुरु तत् तावत् स्थिताः स्मो वयं __ योगिन्नुच्छलितोऽपि यन्न चणको भाण्डं प्रभेत्तुं क्षमः । क्रुद्धस्तद्वचसा विधाय विकृतं वक्त्रं स भीत्यावहं
दन्तान् स्थूलतरानदीदृशदथो जान्वग्रजाग्रन्मुखान् ॥३८॥ किं नो भीषयसे तृणाय न वयं मन्यामहे त्वादृशं
व्याहृत्येति भयोज्झिता मुनिवरास्तत्पातसंसूचिनीम् । उद्गीर्य स्वकफोणिमुन्नततरां जग्मुस्ततः श्रीगुरो
रभ्यणे जगदुश्च तद्गुरुरथो प्रोवाच सर्वान् यतीन् ॥३९॥ चेद् योगीह विभीषिकां विकुरुते मा भैष्ट तद् भो ! मनाक् त्राताहं वरिवमि वोऽथ वसतौ दोषागमे लक्षशः।