SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। जिनालयानि सप्त ज्ञानभाण्डागाराँश्च । एकविंशतिसुवर्णधटीव्ययेन व्यधापयच्छत्रुनये श्रीऋषभजिनप्रासादम् , पर्यदधाच षट्पञ्चाशत्सुवर्णघटीव्ययेनेन्द्रमालामतिविशालाम् । श्रीमतो मन्त्रविद्याविशारदत्वोदाहरणानि प्रदत्तान्यनेकानि श्री श्रीमुनिसुन्दरसूरिप्रणीतायां गुर्वावल्याम् । परमिह तु वाचकचेतश्चमत्कारकारकं प्रदीयते श्रीगुणरत्नसूरिविरचितक्रियारत्नसमुच्चयान्तःस्थगुरुपर्वक्रमवर्णनाधिकारगतो योगिराजपराजयनवृत्तान्तः, तथाहि" योगी कश्चन शिष्यवृन्दकलितोऽवन्त्यां स्थितो गर्भमृ नानासिद्धिबहुप्रसिद्धिहृतहृद्भपप्रजाभ्यर्चितः । तत्र स्थातुमयं न जैनयतिनां दत्ते कदापि कचि च्चेदागच्छति कोऽपि साधुरिह यस्तं प्रत्यसौ मत्सरात् ॥३२॥ आसन्नोऽप्यथ दूरगोऽपि सहसा सौवप्रभावोधुरो हुङ्कारात् तृणतन्तुधूलिकणिकाक्षेपात् तथा स्वाङ्कतः । मार्जारान् नकुलोन्दुराहिसरटान् गोधावृकान् वृश्चिकान् फेरण्डप्रभृतींश्च मुञ्चतितमां लक्षादिसङ्ख्यान् क्षणात् ॥३३॥ युग्मम् । भन्याश्चापि बिभीषिकाः प्रकटयत्युच्चैः स नानाविधा- . स्तद् दृष्ट्वा भयप्लविताँ छलयति क्षुल्लान् स पापः क्षणात् । साधुः कोऽपि न तत्र तिष्ठति ततः श्रीधर्मघोषोऽन्यदा सूरिस्तत्र समीयिवान् बहुपरीवारो विहारक्रमात् ॥३४॥ साधूनध्वनि सङ्गतान् स सहसा दृष्ट्वाऽथ दुष्टो रुषा दन्तैर्दष्टरदच्छदोऽवदददः श्वेताम्बराः ! किं धरा ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy