________________
(५०) जनस्तोत्रसन्दोहे।
एकदिनप्रगीतमहाप्रबन्धेन षड्भाषाकविचक्रवर्तिनानेन कलिकालसर्वज्ञश्री हेमचन्द्रसूरिप्रणीतं द्विसन्धानमहाकाव्यं समशोधि । उक्तंच तत्प्रशस्तौ
एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः ।
श्रीपालनामा कविचक्रवर्ती सुधीरमुं शोधितवान् प्रबन्धम् ॥ " प्राग्वाटान्वयवंशमौक्तिकमणे: श्रीलक्ष्मणस्यात्मजः श्रीश्रीपालकवीन्द्रबंन्धुरमलप्रज्ञालतामण्डपः । श्रीनाभेयजिनांह्विपद्ममधुपस्त्यागाद्भुतैः शोभितः श्रीमान् शोभित एष सद्यविभवः स्वौौंकमासेदिवान् ।
इत्यनेन श्रीजिनविजयसम्पादितप्राचीनजैनलेखसंग्रहद्वितीयविभागान्तर्गत (२७१) लेखाल्लक्ष्मणाख्योऽस्य पितेति ध्वन्यते ।
श्रीसोमप्रभाचार्येण सुमतिनाथचरित्र-कुमारपालप्रतिबोधयो रचना एतच्छीपालकविसूनोः कुमारपालभूपालप्रीतिपात्रस्य सिद्धेपालकवेर्वसतावकारोति प्रतिपाद्यते तेनैव सूरिणा निजकृतिप्रान्ते“सूनुस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता
मुत्तंसः कविचक्रमस्तकमगिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकारकरुणासौजन्यसत्यक्षमा___ दाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनैर्मन्यते ।। तस्य पौषधशालायां पुरेऽणहिलपाटके ।
१ तनुजन्मनाऽस्य विजयपालेन व्यरचि द्रोपदीस्त्रयवरनाटकम् ।