SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । ( ४९ ) परन्तु सत्यहरिश्चन्द्र - निर्भयभीमव्या योगादिषु यथाऽस्य स्वातन्त्र्यमुद्राऽस्ति तथा षोडशिकास्तवादावपि कचित् कचिद् दृश्यते । तथाहिस्वतन्त्रो देव ! भूयासं सारमेयोऽपि वर्त्मनि । मा स्म भूवं परायत्तस्त्रिलोकस्यापि नायकः ॥ स्वातन्त्रय श्रीपवित्राय परमब्रह्ममूर्तये । नमो भगवतेऽर्हते ॥ साधिताशेषसाध्याय -- अपरञ्च –प्रभावकचरित्रादौ श्रीरामचन्द्रसुरेर्दृष्टिविनाशो व्याववर्णितोऽस्ति स एव ध्वन्यते स्वामिन्ननन्तफलकल्पतरोऽभिरामचन्द्रावदातचरित्राश्चितविश्वचक ! | शक्रस्तुतहिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ इत्यादिपद्यैः षोडशिकास्तोत्रादिष्वपि । इत्येताभ्यां कारणाभ्यां प्रबन्धरातप्रणेतुः श्रीरामचन्द्रस्यैवाऽमूनि कृतिरूपाणीति मे मतम् || (२२) श्रीपालकविः --- श्रीजय सिंह नरेन्द्रेण कवीन्द्रः, भ्रातेति च व्याहृतः प्राग्वाटज्ञातीयः श्रावकपुङ्गवोऽयम् यदाहुः श्रीसोमप्रभाचार्याः सुमतिनाअचरित्र - कुमारपाल प्रतिबोधप्रशस्तौ - प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्री सिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy