SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। निष्प्रत्यूहमिदं प्रोक्तं परार्थान्तं........ ॥ -सुमतिनाथचरित्रान्ते । पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता__ मुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । क्लप्तं तद्वसताविदं किमपि यच्चायुक्तमुक्तं मया तयुष्माभिरिहोच्यतामिति बुधा ! वः प्राञ्जलिः प्रार्थये ॥ -कुमारपालप्रतिबोधप्रान्ते । " तथा सिद्धभूपालः स्वकृतपादद्वयसमस्यापूरणे सर्वाङ्गशृङ्गारं रत्नमुद्रादिकं श्रीपालकवये ददौ " इत्येवं नैकवेलायां सिद्धराजकीर्तिदानप्रसङ्गे स्मरत्यमुं श्रीरत्नमन्दिरगणिः उपदेशतरङ्गिण्याम् । चतुर्विशतिजिनस्तवनम्, सहस्रलिङ्गसरोवरस्य प्रशस्तिश्चानेन विनिर्ममे । ___(२३) अमरचन्द्रमूरिः। .. अणहिल्लपत्तनासनवर्तिनि वायटमहास्थाने परपुरप्रवेशादिविद्यासम्पन्नश्रीजोवदेवमूरिसन्ताने जिनेंदत्तमूरेः शिष्योत्तमोऽयं प्रज्ञाल १ अस्य गुगदोषस्वरूपं तुव्यावर्णित श्रीरामचन्द्रप्रिवृत्तान्तेऽस्माभिः । २ परकायप्रवेशादिवृतमस्य विज्ञेय पद्मानन्दमहाकाव्यप्रशस्तेः । ३ व्यावर्णितं वृत्तमस्य सविस्तरं चतुर्विंशतिप्रबन्धे ( प्रबन्धकोषे ) तथापि दीयतेऽत्र रत्नशेखरसूरिविरचिताचारप्रदीपान्तर्गत किञ्चित्--- “ वायटमहास्थाने श्रेष्ठिधर्मदेवस्याद्यः सुतो महोधरो देशान्तरभ्रमी दिक्पटैदीक्षितः सूरिपदे न्यस्तः परकायप्रवेशादिविद्याश्च दत्ताः, द्वितीयः सुतो महीपालः भ्रातृवियोगादात्तदीक्षः श्वेताम्बराचार्यों जज्ञे । द्वयोर्मिलने मात्रा भ्रात्रा चाहाराशुद्वयायुक्त्या बोधितो दिगम्बराचार्यः श्वेताम्बरो जज्ञे । सूरित्वे जीवदेवेतिति नाम । स यतिपञ्चशतीपरिवारो व्याख्याक्षणागत
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy