________________
(४६)
जैनस्तोत्रसन्दोहे एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलं
मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥' विशेषेणास्मिन् काव्ये प्रशस्यमाने श्रीसिद्धराजेन पृष्टः श्रीरामचन्द्रः 'चिन्यमेतत् ' इत्यवादीत् । अथ तैरेव सर्वैरनुयुक्तः । एतस्मिन् काव्ये सैन्यवाचको दलशब्दः, कमलशब्दस्य नित्यक्लीबत्वमिति दूषणद्वयं चिन्त्यम् । ततः सर्वानपि पण्डितानुपरुध्य दलशब्दो राजसैन्यार्थे प्रमाणीकारितः । कमलशब्दस्य तु लिङ्गानुशासनसिद्ध नित्यक्लीबत्वं केन निणीर्यत इति 'पुंस्त्वं च धत्ते नवा' इत्यक्षरभेदः कारितः।"
अनेन कौमुदीमित्रागन्द-निर्भयभीमव्यायोगादिप्रस्तावनायां 'प्रबन्धशतकर्तुमहाकवे रामचन्द्रस्य' इति विशेषणमात्मनि प्रयोजयता स्वस्य प्रबन्धशतकर्तृत्वं प्रकटं पर्यचायि । किन्तु साम्प्रतं निम्नलिखिता एव प्रबन्धा दृग्गोचरीभवन्ति
१ नलविलासनाटकम् २ कौमुदीमित्राणन्दप्रकरणम् ३ मल्लिकामकरन्दप्रकरणम् * ४ सत्यहरिश्चन्द्रनाटकम् ५ यादवाभ्युदयम् ६ राघवाभ्युदयम्* ७ रेघुविलासम्*
८ रोहिणीमृगाङ्कप्रकरणम्* १ गायकवाड ऑरीयन्टल इन्स्टीस्युट (वडोदरा) द्वारा प्रसिद्धम् । २ भावनगरस्थया श्री आत्मानन्दसभया प्रकाशितम् ।