________________
प्रस्तावना
(४५)
~
~
~
~
वातोद्धृतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली
दूर्वाचुम्बनचञ्चुर। रविहयास्तेनातिवृद्धं दिनम् ॥ चमत्कृतेन सिद्धराजेनोक्तम् सद्यो नगरं वर्णय पत्तनाभिधम्
एतस्यास्य पुरस्य पौरवनिताचातुर्यतो निर्जिता ____ मन्ये नाथ ! सरस्वती जडतया नीरं वहन्ती स्थिता । कीर्तिस्तम्भभिषोच्चदण्डरुचिरामासूत्र्य वाहावली
तन्त्रीकां गुरुसिद्धभूपतिसरस्तुम्बी निजां कच्छपीम् ॥ तुष्टेन सर्वसमक्षं ' कविकटारमल्ल ' इति बिरुदं दत्तम् ॥
श्रीसिद्धराजभूपकारितसहस्रलिङ्गसरोवरस्य श्रीपालकविना विरचितप्रशस्तावन्यविदुषामगोचरं दूषणद्वयं दर्शितं विपश्चितानेने. त्यवगम्यते प्रबन्धचिन्तामणितः
" अथ श्रीपालकविना सहस्रलिङ्गसरोवरस्य रचितायां प्रशस्तिपट्टिकायामुत्कीर्णायां तत्स्थकाव्यमिदम्
न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदकाच्छोदकमत्र सारं विराजते कीर्तितसिद्धभर्तुः ॥
तत्प्रशस्तिशोधनाय सर्वदर्शनेष्बाहूयमानेषु श्रीहेमचन्द्राचार्यैः सर्वविद्वज्जनानुमते प्रशस्तिकाव्ये भवता वैदग्ध्यं किमपि न प्रकाश्यमित्युक्त्वा पण्डितरामचन्द्रोऽनुशिष्य तत्र प्रहितः।
ततः सर्वविद्वद्भिः शोध्यमानायां प्रशस्तौ नृपोपरोधात् श्रीपालकवेर्दक्ष्यदाक्षिण्याच सर्वेषु काव्येषु मन्यमानेषु'कोशेनापि युतं दलैरुपचितं नोच्छेत्तमेतत् क्षम
स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते न हि ।