________________
प्रस्तावना
(४३) वर्द्धमानगणिः
अयमपि पूर्वोक्तं प्रतिबोधग्रन्थमश्रौषीत् । कुमारविहारप्रशस्तिकाव्यव्याख्यानादिकमनेन निर्ममे । देवचन्द्रमुनिः
चन्द्रलेखाविजयप्रकरणमनेन प्रणीतम् । यशश्चन्द्रगणिः_ वि. सं. १३६१ वर्षे श्रीमेरुतुङ्गमूरिणा विरचिते प्रबन्धचिन्तामणौ ( सं. ४, पृ. २०६, २३३) एतस्य नामोपलभ्यते । उदयचन्द्रः
अस्योपदेशाद् देवेन्द्रमूरिशिष्यो मनीषी कनकप्रभो हेमन्याससारं समुदधरत् ।
१ हेमचन्द्रसूरिशिष्येण वर्द्धमानगणिना कुमारविहारप्रशस्तौ काव्येऽमुध्मिन् पूर्व षडथै कृते पि कौतुकात् षोडशोत्तरं शतं व्याख्यानां चके । P. P. ३, ३१६ एतस्य मुद्रणाऱ्या पुस्तिका मया कृताऽस्ति । २ भूपालमौलिमाणिक्यमालालालितशासनः । दर्शनषट्कनिस्तन्द्रो हेमचन्द्रो मुनीश्वरः ॥ तेषामुदयचन्द्रोऽस्ति शिष्यः संख्यावतां वरः । यावज्जीवमभूद यस्य व्याख्या ज्ञानामृतप्रपा ॥ तस्योपदेशाद् देवेन्द्रसूरिशिष्यलवो व्यधात् । न्याससारसमुद्धारं मनीषी कनकप्रभः ॥
-हैमशब्दानुशासनबृहन्न्यासप्रान्ते।