________________
(४२)
जैनस्तोत्रसन्दोहे अनेकार्थसंग्रहः
निघण्टुः ( सशेषः ) श्रीमतः शिष्यादिपरिचयःमहेन्द्रमूरिः--
अनेन मूरिणा नेकार्थकैरवाकरकौमुदीसज्ञिता। हैमानेकार्थसंग्रहटीका गुरुनाम्नैव प्रतिष्टिता ।।
श्रीसोमप्रभाचार्येण वि. सं. १२४१ वर्षे समापितो जिनधर्मप्रतिबोधापरनाम कुमारपालप्रतिबोधग्रन्थश्चाश्रावि।
गुणचन्द्रगणिः____ अनेन साकं कविरामचन्द्रेणस्वोपज्ञद्रव्यालङ्कारवृत्ति-नाट्यदर्पणविवृत्ती विहिते । एतेनाऽपि श्रीसोमप्रभाचार्यप्रणीतः कुमारपाल(जिनधर्म ) प्रतिबोधः श्रुत आसीत् । रामचन्द्रमूरिः--
सरिवरोऽयं श्रीहेमचन्द्राचार्येण स्वपदप्रतिष्ठितो गुणाधिकः शिष्यः । उपर्युक्तस्य श्रीगुणचन्द्रगणेः परमप्रीतिपात्रं समविद्यागुणशीलः । विशेषपरिचितिं तु दास्यामि यथास्थानमग्रतोऽस्य (पृ.४४)। १ श्रीहेमसूरिशिष्येण श्रीमहेन्द्रसूरिणा । भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥
-अनेकार्थकैरवाकरकौमुदी । २-३ शशिजलधिसूर्यवर्षे (१२४२) शुचिमासे रविदिने सिताष्टम्याम् ।
जिनधर्मप्रतिबोधः क्लुप्तोऽयं गूर्जरेन्द्रपुरे। श्रीहेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वर्धमानगुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥
-कुमारपालप्रतिबोधप्रशस्तिः ।